________________
www
चूर्णिभाष्यावचूरिः उ० १६ सू ४-१३ सचित्तेवारण्यगभिक्षावसुराजिकविपर्ययनि० ३६५ अत्राह भाष्यकार:
सोदगागणियं सेज्जं, खणिगं सव्वकालियं ।
पविसे तत्थ जो भिक्खू, आणाभंगाइ पावइ ॥१॥ छाया-सोदकाग्निकां शय्यां, क्षणिकां सर्वकालिकाम् ।
प्रविशेत् तत्र यो भिक्षुः, आशाभङ्गादि प्राप्नोति ॥१॥ अवचूरिः-'सोदगागणियं' सोदकाग्निकाम्-सोदकां साग्निकां वा उदकसहितामग्निसहितां वा 'सेज्ज' शय्याम् , सा द्विविधा-क्षणिका-अल्पकालभाविनी, सर्वकालिका-सर्वकालभाविनी जलाशयरूपा इष्टिकापाकादिरूपा च, तां द्विविधामपि शय्याम्-वसतिं प्रविशेत् यो भिक्षुः तिप्ठेत् स आज्ञाभङ्गादिदोषान् प्राप्नोतीति । सू० ३ ॥
सूत्रम्-जे भिक्खू सचित्तं उच्छंभुंजइ भुजंतं वा साइज्जइ ॥ सू०४॥ छाया—यो भिक्षुः सचित्तमिर्धा भुङ्क्ते भुञ्जान वा स्वदते ॥ सू० ४ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्ख्' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'सचित्तं उच्र्छ' सचित्तमिक्षुम् ‘भुंजई भुक्ते तथा 'भुजंतं वा साइज्जइ' भुञ्जानं वा स्वदते-सचित्तेक्षुदण्डस्योपभोगं कुर्वाणं श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू०४॥
सूत्रम्-एवं पण्णरसमे उद्देसे अंबस्स जहा गमो सो चेव इहंपि णेयवो ॥ सू० ५-९॥
छाया-पवं पञ्चदशे उद्देशे आम्रस्य यथा गमः स एव इहापिसातव्यः ।सू०५-९॥
चूर्णी-एवं-अनेनैव प्रकारेण यथा पञ्चदशोद्देशके सचित्ताम्रफलभक्षणे गमः कथितः स एव गमो निरवशेषोऽत्रापि ज्ञातव्यः केवलाम्रफलस्थाने सचित्तमिक्षुमितिपदं निवेशनीयमिति । नवरम 'अंतरुच्छयं' इति अन्तरिक्षुकम्-इक्षोरन्तर्भागव्यवस्थितमवयवविशेषम् । शेषं सूत्रपञ्चकं पञ्चदशो. देशकगताम्रसूत्रवद् व्याख्येयम् ॥ सू० ५-९ ॥
सूत्रम्--जे भिक्खू आरण्णगाणं वणवयाणं अडविजत्तासंपट्टियाणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गाहेंत वा साइज्जइ ॥ सू० १०॥
छाया-यो भिक्षुरारण्यगानां वनवजानाम् अठवीयात्रासंप्रस्थितानाम् अशनं वा पान वा खाद्य वा स्वाद्य वा प्रतिगृह्णाति, प्रतिगृह्यन्तं पा स्वदते ॥ सू० १० ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्दि भिक्षुः 'आरणगाणं' आरण्यगाणाम् , अरण्यम्-एकजातीयवृक्षसमूहात्मकं तदेव आरण्यम् तत्र गच्छन्तीति आरण्यगाः, तेषामारण्यगा