SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे एवं नाट्येऽपि, तत्र नृत्यनाटकयोरयं भेदः यत् गीतरहितं तत् नृत्यं तत्र केवलं गात्रसञ्चालनमेव, नाटकं तु गीतसमन्वितम्, यत्र गीतमपि गायति गात्रसञ्चालनमपि करोति इति, तत्र नाटकेऽपि स्त्रीपुरुपयोविभागेन द्रव्यभावभेदो ज्ञातव्य इति । एवं गीतेऽपि, तत्र गीत-स्वरसाम्येन गानं, तच्चतुर्विधं भवति, तन्त्रीसमम् १, तालसमम् २, ग्रहसमम् ३, लयसमं च ४, तत्र यत् गीतं पुरुपैर्गातुं योग्यं तत् श्रमणानां द्रव्यसागारिकं श्रमणीनां तदेव भावसागारिकम्, यत् पुनः स्त्रीमिर्गातुं योग्यं तत् श्रमणीनां द्रव्यसागारिकं श्रमणानां भावसागारिकम् । एवं शयनीयेऽपि, तत्र शयनीयं पर्यङ्कायनेकप्रकारकम् , तत्र यत् शयनीयं पुरुपैरधिष्ठातुं योग्यं तत् श्रमणानां द्रव्यसागारिक तदेव शयनीयं श्रमणीनां भावसागाकिरम्, यत्पुनः स्त्रीभिरधिष्ठातुं योग्यं तत् शयनीय श्रमणीनां द्रव्यसागारिकं श्रमणानां तु भावसागारिकम् | इत्यादिभेदभिन्नां सागारिकशय्यां यः कश्चिद्भिक्षुरनुप्रविशति स दोषभागी भवतीति ॥ सू० १ ॥ मूत्रम्-जे भिक्खू सोदगं सेज्ज अणुप्पविसइ अणुप्पविसंतं वा साइज्जइ ॥ सू० २॥ छाया--यो भिक्षुः सोदकां शय्यामनुप्रविशति अनुप्रविशन्तं वा स्वदते ॥सू०२ ॥ चूर्णि:-'जे भिक्ख' इत्यादि । 'जे भिक्ख' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'सोदकं सेज्ज' सोदकां शय्याम् सचित्तजलसहितां जलस्थानरूपां सागारिकवसतिं गृहस्थानां जलस्थानं प्रपा. दिकम् यत्रोदकं विद्यते तादृशस्थानं यस्य वा समीपे उदकं विद्यते तादृशं स्थानं सोदकशय्येति पदेन कथ्यते इति तादृशीं सोदकां वसतिं यः श्रमणः श्रमणी वा 'अणुप्पविसई' अनुप्रविशति तत्र प्रवेशं करोति, कारयति वा 'अणुप्पविसंत वा साइजई' अनुप्रविशन्तं वा सोदकशय्यायां वासं कुर्वन्तं श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तमागी भवति ।। सू० २ ॥ सूत्रम्-जे भिक्खू सागणियं सेज्जं अणुप्पविसइ अणुप्पविसंतं वा साइज्जइ ॥ सू० ३॥ छाया-यो भिक्षु साग्निकां शय्यामनुप्रविशति अनुपविशन्तं वा स्वदते ॥सू० ३॥ चूर्णी-'जे भक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः प्रमणः श्रमणी वा 'सागणियं सेज' साग्निकां शय्याम् , तत्र अमिना सहिता-संयुक्ता अग्निसमीपस्था वा शय्या वसतिः-स्थानं सा साग्निकशय्या तां साग्निकशय्यां पाकस्थानं महानसादिकम् , कुम्भकारस्य भाण्ड. पचनस्थानं वा यत्राग्निर्भवेत् तत्र, अथवा अग्निसमीपवर्तिस्थानं वा 'अणुप्पविसइ' अनुप्रविशति अग्निशालादिपु प्रवेश करोति कारयति वा तथा 'अणुप्पविसंत वा साइज्जई' अनुप्रविशन्तं वा श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy