SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ पूर्णिमाम्यावचूरिः उ १५ सू० ६९-७२ आगन्त्रागारादिषु-उच्चारादिपरिष्ठापननि० ३५३ छाया यो भिक्षुः आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा पर्यावसथेषु वा उच्चारप्रस्रवण परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ६९ ॥ चूर्णी-'जे भिक्खू' इत्यादि । जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रभणी वा 'आगंतागारेसु वा' आगन्त्रागारेषु, यत्र स्थाने आगन्तारो गन्तारश्च विश्रामाय निवसन्ति सः आगन्त्रागार:-. धर्मशालेति लोकप्रसिद्धः तेषु-आगन्तुकनिवासस्थानेषु तथा-'आरामागारेसु वा ' आरामागारेषु, तत्रारामः-उपवनम् तत्र विद्यमानः अगारो गृहं यत्र क्रीडार्थमागता' पुरुषाः विश्रामार्थ निवसन्ति तादृशस्थानेषु 'गाहावइकुलेसु वा' गाथापतिकुलेषु, तत्र गाथापतिर्गृहस्थः, तस्य कुलेषु गृहेषु गृहस्वामिनां ग्रामान्तरगमनेन शून्यप्रायेषु गृहेष्वित्यर्थ. 'परियावसहेसु वा' पर्यावसथेषु वा तापसानां निवासस्थानेषु इत्यर्थः, एतेषु स्थानेषु 'उच्चारपासवणं' उच्चारप्रस्रवणं मूत्रपुरीषादिकम् उपलक्षणत्वात् ठीवनादिकमपि गृह्यते 'परिहवेई' परिष्टापयति तत्र व्युत्सृजतीत्यर्थः तथा 'परिहवेंतं वा साइज्जइ' परिष्ठापयन्तं वा मूत्रपुरीषादीनां व्युत्सर्जन कुर्वन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति, तथा ये एतादृशस्थानेषु उच्चारप्रस्रवणादिकं व्यत्सृजन्ति तेषामण्यशो भवति-'एते साधवः अशुचिसमाचाराः योगाचारवाह्या मलमूत्रपरायणाः दुर्वृत्ता भोगोपभोगस्थानानि अपवित्राणि कुर्वन्तो विहरन्ती,-त्येवमाद्यपयशो भवति, लोकापवादाच्च न कोऽपि दीक्षां ग्रहीष्यतीत्यतः प्रवचनस्य हानिहींलना च भवति एवं कोट्टपालादिना निवारिता ग्रामादौ प्रवेशमपि नो लभेरन् ॥ सू० ६९ ॥ सूत्रम्-जे भिक्खू उज्जाणंसि वा उज्जाणगिहंसि वा उज्जाणसालंसि वा निज्जाणंसि वा निज्जाणगिहंसि वा निज्जाणसालंसि वा उच्चारपासवणं परिहवेइ परिट्ठवेंतं वा साइज्जड || सू० ७० ॥ छाया-यो भिक्षुरुद्याने वा उद्यानगृहे वा उद्यानशालायां वा निर्याणे वा निर्याणगृहे वा निर्याणशालायां वा उच्चारप्रेस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥सू० ७०॥ ___ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षु. श्रमणः श्रमणी वा 'उज्जाणंसि वा' उद्याने वा, तत्रोधानं नाम एकजातीयवृक्षाणां • समुदायलक्षणम्, तादृशे उद्याने 'उज्जाणगिहंसि वा' उद्यानगृहे वा उद्यानस्थिते गृहे विश्रामस्थाने 'उज्जाणसालसि वा' उद्यानशालायाम् उद्याने स्थिता या शाला तस्याम् 'निज्जाणसि वा निर्याणे वा लोकानां गमनागमनमार्गे 'निज्जाणगिहंसि वा' निर्याणगृहे वा गमनागमनमार्गस्थितगृहे वा 'निज्जाणसालंसि वा' निर्याणशालायां वा तादृशेषु स्थानेषु श्रमणः श्रमणी वा 'उच्चारपासवण' उच्चारप्रस्रवणं 'परिहवेइ' परिष्ठापयति मूत्रपुरीषयोयुत्सर्जनं करोति 'परिहवेंतं वा ' परिष्ठापयन्तं वा 'साइज्जई' स्वदते स प्रायश्चित्तभागी भवति ।। सू० ७० ॥ ४५
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy