________________
निशीथस्त्रे सूत्रम्-जे भिक्खू अटेंसि वा अट्टालियंसि वा चरियंसि वा पागारंसि वा दारंसि वा गोपुरंसि वा उच्चारपासवणं परिद्ववेइ परिदुवेंतं वा साइज्जइ ॥ सू० ७१ ॥
छायायो भिक्षुः अट्टे वा अट्टालिकायां या चरिकायां वा प्राकारे वा द्वारे वा गोपुरे वा उच्चारप्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ७१ ।।
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'असि वा' अट्टे वा-कोट इति लोकप्रसिद्धे 'अट्टालियंसि वा' अट्टालिकायाम् अट्टोपरिविद्यमानस्थाने इत्यर्थः 'चरियंसि वा' चरिकायां वा अट्टालिकाया उपरितनं स्थानं चरिका-तादृशस्थानविशेषे इत्यर्थः, 'पागारंसि वा प्राकारे वा 'दारंसि वा' द्वारे वा गृहस्यद्वारभागे इत्यर्थः, 'गोपुरंसि वा' गोपुरे वा-द्वारारद्वारे, एतेषु स्थानेषु 'उच्चारपासवणं' उच्चारप्रस्रवणम् 'परिहवेइ' प्रतिष्ठापयति, तथा 'परिठवतं वा साइज्जई' परिष्ठापयन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।।सू० ७१ ॥
सूत्रम्-जे भिक्खू दगंसि वा दगमग्गंसि वा दगपहंसि वा दगतीरंसि वा दगट्ठाणंसि वा उच्चारपासवणं परिट्ठवेइ परिहवेंतं वा साइज्जइ ॥ सू० ७२॥
छाया--यो भिक्षुरुदके वा उदकमार्गे वा उदकपथे वा उदकतीरे वा उदकस्थाने घा उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते ॥ सू० ७२ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः यः कश्चित् श्रमणः श्रमणी वा 'दगंसिवा' उदके–जले जलाशये सरित्तडागादौ जलाशयमर्यादितस्थाने इत्यर्थः 'दगमगंसिवा' उदकमार्गे-जल मार्गे येन मार्गेण जलं प्रवति यद्वोदकमिश्रितमार्गे, 'दगपहंसि वा' उदकपथे वा जलानयनमार्गे वा 'दगतीरंसि वा' उदकतीरे-जलतटे जलासन्नवत्तिस्थाने इत्यर्थः 'दगठागंसि वा' उदकस्थाने वा यत्र स्थाने उदकं संगृह्य सस्थाप्यते तादृशस्थाने, एतेपु-उपपयुजल स्थानेषु 'उच्चारपासवण' उच्चारप्रस्रवणम् 'परिद्ववेइ' परिष्ठापयति-व्युत्सृजति तथा 'परिहवेतं वा साइज्जई' परिष्ठापयन्तं वा स्वदते-अनुमोदते-स प्रायश्चित्तभागी भवति-॥ सू० ७२ ॥
सूत्रम्-जे भिक्खू सुन्नगिहंसि वा सुन्नसालंसि वा भिन्नगिर्हसि वा भिन्नसालंसि वा कूडागारंसि वा काट्ठागारंसि वा उच्चारपासवणं परिवेइ परिहवेंतं वा साइज्जइ ।। सू० ७३ ।।