________________
॥ चतुर्दशोदेशकः॥ अथ त्रयोदशोदेशक व्याख्यायावसरप्राप्तं चतुर्दशोदेश व्याप्यातुमाह, तत्र त्रयोदशोदेशकान्तिमसूत्रेण मह चतुर्दशोदेशकादिसूत्रस्य कः सम्बन्धः ? इत्यत्राह भाष्यकार:भाष्यम्-पडिसेहो च पुमि, पिंडाइस्स पदसिओ ।
सो चेव पडिसेहो उ, पत्ताइस्स कहिज्जइ ॥ छाया-प्रतिषेधश्च पूर्वस्मिन् पिण्डादेः प्रदर्शितः ।
स पव प्रतिपेधस्तु पात्रादे. कथ्यते ॥ अवचूरिः- त्रयोदशोदेशकस्य अन्तिमे पिण्डादेरविहितधात्र्यादिपिण्डस्य प्रतिषेधः धात्रीपिण्डप्रभृतिपिण्डग्रहणस्य निषेधः प्रदर्शितः कथितः, तादृशपिण्डस्य संयमोपघातकत्वात् । स एव प्रतिषेधोऽत्र चतुर्दशोदेशके पात्राघुपधेः कथ्यते, तत्राविहितपिण्डग्रहणस्य तदुपभोगस्य च निषेधः कृतोऽत्राविहितपात्रस्योपलक्षणादुपधेः निषेधो वर्ण्यते इति उभयत्रापि प्रतिषेध एव, ततश्च यथा अविशुद्धपिण्डग्रहण न कर्तव्यं तथैव-अविशुद्धपात्रादिकमपि वर्जनीयमेव, तदनेन सम्बन्धेनायातस्यास्य चतुर्दशोद्देशकीयप्रथमसूत्रस्य व्याख्यानं प्रस्तूयते-'जे भिक्खू इत्यादि ।
सूत्रम्--जे भिक्खू पडिग्गहं किणइ किणावेइ कीयमाहटुदिज्जमाणं पंडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू० १॥
छाया-यो भिक्षुः प्रतिग्रहं क्रीणानि कापयति फ्रीतमाहत्य दीयमान प्रतिगृशति प्रतिगृहन्तं वा स्वदते ॥ सू० १॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जेमिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'पडिग्गह' प्रतिग्रहं गात्रं 'किणइ' क्रीणानि, द्रव्यादिकं दत्त्वा स्वयमेव पात्रस्य क्रयणं करोति तथा 'किणावेई' क्रापयति, परद्वारा द्रव्यादिकं दापयित्वा पात्रं क्राणाति तथा 'कीयमाहहु दिज्जमाणं पडिग्गाहेइ' क्रीतमात्यदीयमानं गृह्णाति, अन्यः कोपि श्रद्धालुर्गृहस्थः मूल्यं दत्त्वा पात्रं क्रीतवान्, क्रीत्वा प्रदीयते तादृशं क्रीतमाहृतमभिमुखमानीय नीयमानं पात्रादिकं प्रतिगृहाति स्वीकरोति स्वीकारयति वा तथा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृहन्तं वा स्वरते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनादयो दोषा भवन्तीति ।। सू० १॥
अत्राह भाष्यकार: भाष्यम्-कीय किणावियं वावि, अणुमोइयमेव वा ।
एक्कक्कं दुविहं बुत्तं, दव्यभावप्पमेयओ ॥ छाया-क्रीत क्रापित वापि, अनुमोदितमेव वा ।
एकैकं द्विविध प्रोक्तं द्रव्यभावग्रमेदतः ॥