________________
धूर्णिभाष्यावचूरिः उ० १४ सू० १
अत्राह भाष्यकार ः—
भाष्यम् - धाईपिंडं समारब्भ, चुण्णपिंडगमंतगं । भुंजे अह अणुमो य, आणाभंगाइ पावइ ॥
प्रतिग्रहस्य क्रयणकापणादिना ग्रहणनिषेध. ३२९
छाया - धात्रीपिण्डं समारभ्य चूर्णपिण्डान्तकम् । भुञ्जीताथानुमोदेत व आवाभङ्गादि प्राप्नोति ॥ अवचूरिः - 'घाईपिंडं' इत्यादि । घाश्रीपिण्डादारम्य चूर्णपिण्डपर्यन्तं यो भुञ्जीत अहरेत्, अथ अनुमोदेत च स आज्ञाभङ्गादिदोषान् प्राप्नोति ॥ सू० ८३ ||
अथोपसंहारमाह-- 'तं ठाण इत्यादि ।
सूत्रम् — तं ठाणं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्घाइयं ॥ सू० ८४॥
॥ निसीहज्झयणे तेरसमो उद्देसो समत्तो ॥ १३ ॥
छाया— तत्स्थांनं सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमुद्धातिकम् ॥८४॥ ॥ निशीथाध्ययने त्रयोदशोदेशकः समाप्तः ॥ १३॥
चूर्णी - 'तं ठाणं सेत्रमाणे' तत्स्थानं पृथिवीकायिकादिषु स्थानकरणादित आरभ्य चूर्ण पिण्डग्रहणपर्यन्तं प्रायश्चित्तस्थानं सेवमानः, तस्य स्थानस्य प्रतिसेवनां कुर्वन् भिक्षुः एषु स्थानेषु मध्यात् यत् किमप्येकमनेक सर्वं वा प्रायश्चित्तस्थानं प्रतिसेवमानः 'आवज्जइ' आप प्राप्नोति 'चाउम्मासियं परिहारद्वाणं उग्धाइयं' चातुर्मासिकं परिहारस्थानमुद्घातिकं लघुचातुर्मासिकं प्रायश्चित्तं प्राप्नोति ॥ सू० ८४||
इति श्री-विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक - पञ्चदशभाषाकलितललित कलापालापकप्रविशुद्धगद्यपद्यनैकप्रन्थनिर्मापक - वादिमानमर्दक- श्री शाहू छत्रपति कोल्हापुरराजप्रदत्त“जैनशास्त्राचार्य " - पदभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य —जैनधर्मदिवाकर-पूज्यश्री- घासीलालवति - विरचितायां "निशीथसूत्रस्य" चूर्णिभाष्यावचूरिरूपायां व्याख्यायाम् त्रयोदशोदेशकः समाप्तः ॥१३॥
४२