________________
पणिभाष्यावरिः उ० १५१०२
प्रतिग्रहस्य प्रामित्यादिना ग्रहणनिषेधः ३३१
अवचूरि:-यत् क्रीत स्वयमेव मूल्यं समर्प्य यस्य क्रयणं कृतं तत्, यद्वा क्रापित अन्य द्वारा क्रयणं कारितम् अन्येन क्रीत्वा अभिमुखमानीय समर्पितं तत् तादृशम् अनुमोदित वा, एतत् त्रिविधमपि पात्रमेकैकं द्विविधं द्विप्रकारकं कथितं द्रव्यभावभेदात् , तत्र द्रव्यतो गन्धगुटिकावखादिंदानेन, भावतः धर्मकथादिकथनेंन जातिकुलगणादिदर्शनेन, शिल्पादिशिक्षणेन भवति । तथा पुनरपि क्रीतादिकं द्विविधं भवति आत्मपरभेदात् , तदपि पुनर्द्विविधं द्रव्यभावभेदात् , तत्र मत् परक्रीतं गृहस्थेन स्वर्य क्रीतं तत् त्रिविधं भवति सचित्तक्रीतम् , अचित्तंक्रीतं, मिश्रक्रीतम् , तंत्र सचित्तक्रीत-मचित्तेन द्विपदचतुष्पदादिना क्रीणाति, अचित्तक्रीतम्-अचित्तेन हिरण्यादिना क्रीणाति, मिश्रीत मिश्रितेन वंत्राभूषणसहितदासीदासादिना क्रीणाति तत् मिश्रक्रीतम् | द्रव्यत
आत्मक्रीतं चेत्थम्-यो भिक्षुः पात्रार्थ स्वस्य वस्त्रं दत्त्वा पात्रं गृह्णाति, भावत आत्मक्रीतं धर्मकथादिना यंत् गृह्यते । परक्रीतं तु इत्थम्-गृहस्थः स्वयमेव क्रीणाति तत् परक्रीतम् । एतेषां स्वक्रीत-परक्रीत-द्रव्यकीत-भावक्रीताभिमुखानीतपात्रादिकमध्यात् अन्यतरेमपि पात्रादि उपभोगाय गृह्णाति तो गृहीत्वा उपभोगं कुर्वाणं समनुमोदते म प्रायश्चित्तभांगी भवति ॥ सू० १ ॥ ___ सूत्रम्-जे भिक्खू पडिग्गहं पामिच्चेइ पामिच्चावेइ पामिच्चियमाहंटु दिज्जमाण पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू० २||
__छाया-यो भिक्षुः प्रतिग्रहं प्रामित्यति प्रामित्ययति पासित्यम् आहृत्य दीयमानं प्रतिगृह्वाति प्रतिगृहन्तं वा स्वदते ॥सू० २॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'पडिग्गई' प्रतिग्रह पात्रम् 'पामिच्चेइ' प्रामित्यति प्रमितिः प्रमाणं, तस्माद् आगतं प्रामित्यम् , प्रमाणं कृत्वा प्रति प्रदानप्रतिज्ञया यद् ग्रहणं तत् प्रामित्यम् । तत्करोतोति प्रामित्यति, यथा यस्य वस्तुनः ग्रहणकाले कथयति 'यदिदानीमिदं वस्तु त्वं मम देहि कालान्तरे एतस्य मूल्यं तदेव वस्तु वा प्रतिदास्यामि' इति कृत्वा ऋणरूपेणानीयते तत् प्रामित्यम् 'उधार' इति लोकप्रसिद्धम् , तत्करोतीति, तथा 'पामिच्चावेइ' प्रामित्ययति , अन्यद्वारा ऋणरूपेण आनाययति 'पामिच्चियमाहटूटु दिज्जमाण प्रामित्यितम्-प्रामित्येन गृहीतम् आहृत्य दीयमानम् उद्धारं कृत्वा पात्रं क्रीतवान् , तादृशपात्रमभिमुखमानीय दीयमानम् यो भिक्षुः श्रमणः श्रमणी वा 'पडिग्गाहेइ' प्रतिगृह्णाति स्वीकरोति प्रातिप्राहयति स्वीकारयति वा तथा 'पडिग्गाहेंत' वा साइज्जई' प्रतिगृहन्तं वा स्वदतेऽनुमोदतें स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकार:' भाष्यम्-पामिच्चाइयपायं तु, दुविई परिकिट्टियं ।
लोउत्तरं लौइयं च, तग्गहणे दोसभा जई ॥