________________
चूर्णिभाष्यावरिः उ० १३ स० ४९-५१ आरोग्यार्थप्रतोकारपार्श्वस्थवन्दनप्रशंसननि० ३२३
चूर्णी-'जे भिक्खू' इत्यादि । 'जे 'भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'विरेयणं करेई' विरेचनं करोति, तत्र विरेचनं नाम अधः-स्रावणम्, संगृहीतमलस्य अपानद्वारा बहिनिस्सारण तादृशं विरेचनं करोति तथा 'करेंत वा साइजई' विरेचनं कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ।। सू० ४७॥
सूत्रम्-जे भिक्खू वमणविरेयणं करेइ करेंतं वा साइज्जइ ॥सू० ४८॥
छाया-यो भिक्षुर्वमनविरेचनं करोति कुर्वन्तं वा स्वदते ॥ सू० ४८ ॥
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वमणविरेयणं करेइ' वमनविरचन-समकालं वमनं विरेचनं च करोति तथा 'करतं वा साइज्जइ' वमनं च विरेचनं च कुर्वन्तं वा स्वदते अनुमोदते म प्रायश्चित्तभागी भवति ॥ सू० ४८॥
सूत्रम्-जे भिक्खू आरोग्गपडिकम्मं करेइ करेंतं वा साइज्जइ ॥ सू ४९॥
छाया -यो भिक्षुरारोग्यप्रतिकर्म करोति कुर्वन्तं वा स्वदते ॥ सू० ४९ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा आरोग्गपाडकम्म' आरोग्यप्रतिकर्म करोति, तत्रारोग्यं नैरुज्यं तस्मिन् सत्यपि प्रतिकर्म चिकित्सा करोति अनागतरोगस्य प्रतिकर्म करोति अर्थात् यो हि रोगरहितशरीरोपि अनागतकालेऽपि मम शरीर कोपि रोगः शरीरविनाशको मा भूयात्, इति कृत्वा बलादिवृद्धयर्थ भाविरोगशमनार्थ वा मौषगदीनां सेवनलक्षणं प्रतिकर्म करोतीति तथा 'करेंतं वा साइज्जई' आरोग्यप्रतिकर्म कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ॥ सू० ४९॥
अत्राह भाष्यकार:भाष्यम्--अरोगत्ते सरीरस्स, वलबुद्दिनिमित्तगं ।
सेवए ओसह जो उ, आणाभंगाइ पावइ ॥ छाया- अरोगत्वे शरोरस्य, वलवृद्धिनिमित्तकम् ।
सेवते औषधं यस्तु आझाभङ्गादि प्राप्नोति ॥ अवचूरिः-यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा नीरोगशरीरोपि बलादिवृद्धयर्थम् उपलक्षणात् आगामिकाले मम शरीरे रोगो मा भवतु, इति बुद्धया च औषधादिकं सेवते,