SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ MARARAAR ३२२ निशीय देहेई' आत्मानं मुखादिकं पश्यति प्रेक्षते तथा 'देहंत वा साज्जई' पश्यन्तं वा जलप्रितमात्रके स्वात्मानं पश्यन्तं श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ॥सू० ३५। एवम् 'अदाए अप्पाणं देहेड' आदर्श-दर्पणे आत्मानं पश्यति ॥ सू० ३६॥ 'असीए अप्पाणं देहेई' असौ खइगे आत्मानं पश्यति ॥ सू० ३७ ॥ 'मणीए अप्पाणं देहेइ' मणौ आत्मानं पश्यति ।। सू० ३८|| 'कुंडपाणीए अप्पाणं देहेइ' कुण्डपानीये हृदादिजले आत्मानं पश्यति ॥ सू० ३९॥ 'फाणिए अप्पाणं देहेड' फाणिते इशुविकारमूते तरले गुढे आत्मानं पश्यति ।। सू०४०॥ तेल्ले अप्पाणं देहेइ' तैले आत्मानं पश्यति ।। सू० ४१॥ 'महुए अप्पाणं देहेई' मधुके–मधौ ‘सहद' इति प्रसिद्धे द्रवभूते तरले मधौ आत्मानं पश्यति ॥ सू० ४२॥ 'सप्पिए अप्पाणं देहेइ' सर्पिषि-घृते आत्मानं पश्यति ॥ स० ४३॥ 'मज्जए अप्पाणं देहेड' मद्यके-मधे मुरायामात्मानं पश्यति ॥ सू० ४४॥ 'वसाए अप्पाणं देहेई' वसायां शारीरिकधातुविशंपे 'चर्बी' इति प्रसिद्धायां आत्मानं पश्यति पश्यन्तं वा अनुमोदते स दोपभागी भवति ॥ सू० ४५॥ अत्राह भाष्यकार:भाष्यम्-मत्तयाइवसांतेस, एरिसन्नयरेसु वा । अप्पाणं देहए भिक्खू, आणाभंगाइ पावई ॥ छाया-मात्रकादिवसांतेपु ईशान्यतरेषु वा । आत्मानं पश्यति भिक्षुः, आशाभकादि प्राप्नोति ॥ अवचूरिः-पञ्चत्रिंशत्तममूत्रादारभ्य पञ्चचत्वारिंशत्तमपर्यन्तसूत्रेषु मात्रकादीनि वस्तूनि कथितानि तेषु सर्वेषु, तथा तादृशेषु अन्येप्वपि वस्तुपु यो भिक्षुरात्मानं शरं रमुखादिकं पश्यति 'जत्तियमेत्ता उ आहिया ठाणा' इति वचनात् यावन्मात्राणि आख्यातानि स्थानानि-मुखादिदर्शनयोग्यानि वस्तूनि तेषु सर्वेषु य आत्मानं पश्यति स आज्ञाभङ्गादिदोषान् प्राप्नोति ॥ . सूत्रम्-जे भिक्खू वमणं करेइ करेंतं वा साइज्जइ ।।सू० ४६॥ छाया-यो भिक्षर्वमनं करोति कुर्वन्तं वा स्वदते ॥ सू० ४६॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कचित् भिक्षुः श्रमणः श्रमणी वा 'वमणं करेइ' वमनं करोति, तत्र वमनं सुखद्वारा अशिताशनादेहिनिष्कासनमित्यर्थः 'करेंतं वा साइज्जइ, वमनं कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ४६॥ सूत्रम्-जे भिक्खू विरेयणं करेइ करेंतं वा साइज्जइ ।। सू० ४७॥ छाया-यो भिक्षु विरेचनं करोति कुर्वन्तं वा स्वदते ॥सू० ४७॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy