SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ निशीथसत्रे सूत्रम् — जे भिक्खू अण्णउत्थियाण वा गारत्थियाण वा निर्हि पवेएइ पवेत वा साइज्जइ ॥ सू० ३४ ॥ छाया -यो भिक्षुरन्ययूथिकानां वा गार्हस्थिकानां वा निधि प्रवेदयति प्रवेद यन्तं या स्वदते ॥ सू० ३४ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्, भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियाण वा' अन्ययूथिकानां वा 'गारत्थियाण वा' गार्हस्थिकानां गृहस्थानां वा 'निहि पवेए' निधिम् प्रवेदयति, तत्र निधानं निधिः निहितं स्थापितं द्रविणजातमित्यर्थः प्रवेदयति, मन्त्रादिना ज्ञात्वा भूमिनिहितं द्रव्यं कथयति प्रकाशयतीति तथा 'पवेएतं वा साइज्जर' प्रवेदयन्तं कथयन्तं श्रमणान्तरं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्तीति । ३२० अत्राह भाष्यकार: - भाष्यम् – धाउं सुवण्णजणयं, निहिं वा पवेयए य जे भिक्खू । गिद्दिणण्णतित्थियाणं सो पावड़ आणभंगाई ॥ छाया - धातुं सुवर्णजनकं निधि वा प्रवेदयेत् यो भिक्षुः । गृहिणामन्यतीर्थिकानां स प्राप्नोति आशाभङ्गादिम् ॥ अवचूरिः - यो भिक्षुः श्रमणः श्रमणी वा धातुं यस्मिन् धम्यमाने सुवर्णादिकं पतति स धातुविशेषः, तं पूर्वसूत्रोक्तं त्रिविधमपि, तथा निधि वा, तत्र निधानं निधिः निहितं स्थापितं द्रविणजातं गृहिणां गृहस्थानामन्यतीर्थिकानां तापसादीनां प्रवेदयेत् कथयेत् स श्रमणः आज्ञाभङ्गादिकान् दोषान् प्राप्नोति, तत्र धातुखिप्रकारको भवति पाषाणरसमृत्तिकाभेदात्, तत्र यत्र पाषाणे धम्यमाने सुवर्णादिकं पतति स पाषाणघातुः १, येन धातुजलेनासितं ताम्रादिकं सुवर्णा दिकं भवति स रसधातुरिति कथ्यते २ या तु मृत्तिका योगयुक्ता ध्मायमाना वा सुवर्णादि भवति स मृत्तिकाधातुः ३ । तं धातुं, तथा निधिः स्थापितद्रव्यजातं स निधिः मनुष्यदैवतैः अधिष्ठितोऽनघिष्ठितो वा भवति, तथा निधिर्जले वा भवति, स्थळे वा भवति, तत्र यो निधिः स्थळे भवति स द्विविधः निक्षिप्तो वा अनिक्षिप्तो वा, सर्वोप्ययं निधिः स्वरूपतो द्विप्रकारको भवति कृतरूपोऽकृतरूपश्च । धातुनिधिकथने इमे दोषाः - धातूनामग्निना धमने पड़जीवनिकायबिराधना भवति । निधिदर्शने तस्य देवाधिष्ठितत्वेनानेके विघ्नाः समुद्भवन्ति । राज्ञा ज्ञाते राजदण्डमपि प्राप्नुयात् । तत्र चक्रध्वजो राजा दृष्टान्तः - तथाहि - आसीत् मगधदेशे पुष्पपुरनगरे चक्रध्वनो राजा, तेन राज्ञा चक्राङ्किता अनेके दीनारा आनाय्य निधानत्वेन स्थापिताः निधानस्थापनानन्तरं बहुदिनानि व्यतीतानि तदनन्तरं
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy