________________
चूर्णिभाष्यावचूरिः उ० १३ सू० ३२-३४ अन्यतीथिकादीनां मार्गधातुनिधिप्रवेदननिषेधः ३१९
मर्गियोः सम्बन्धस्थानम् , अथवा यत्र राजमार्गाद् अन्यो मार्गो निस्सरति तस्योपमार्गस्य नाम सन्धिरिति कथ्यते 'भग्गाओ वा संधि पवेएइ' मार्गात् मार्गेण वा सन्धिमुपमार्ग प्रवेदयति दर्शयति, यो हि राजमार्गारूढो राजमार्गात् उपमार्ग गन्तुमिच्छति तमुपमार्ग दर्शयति कथयतीत्यर्थः 'संधिो वा मग्गं पवेएई' सन्धितो वा मार्ग प्रवेदयति यो हि उपमार्गे स्थितः तं सन्धिमार्गात् मार्ग राजमार्ग प्रति गमनाय राजमार्गस्योपदेशं करोति राजमार्ग कथयतीत्यर्थः तथा 'पवेएतं वा साइज्जई' मार्गभ्रष्टानां दिङ्मूढानां विपरीतमार्ग प्रति प्रस्थितानां परतीथिकानां गृहस्थानां वा राजमार्गस्योपमार्गस्य राजमार्गात् उपमार्गमुपमार्गात् राजमार्ग कथयन्तं श्रमणान्तरं वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ।
अत्राह भाष्यकारःभाष्यम्-गिहीणं अण्णतित्थीणं, मग्गं संधि पवेयई ।
मिच्छत्तं पावई सो उ, आणाभंगाइयं तहा॥ छाया-गृहिणामन्यतीथिनां मानं संधि प्रवेदयति ।
मिथ्यात्वं प्राप्नोति स तु आज्ञाभङ्गादिकं तथा ।। अवचूरिः-गृहिणां गृहस्थानामन्यतार्थिनां तापसादीनां मार्ग राजमार्गम् सन्धिम् यत्र मार्गद्वयं संमिलति तादृशं पन्थानं प्रवेदयति कथयति तथा उपलक्षणात्-मार्गात् राजमार्गात् सन्धि संमिलितमार्गद्वयं, तथा संधितो मार्ग गजमार्गादिकं प्रवेदयति कथयति स मिथ्यात्वम् आज्ञाभगादिदोपांश्च प्राप्नोति । अयं निषेधो हिसार्थप्रस्थितहिंसकजनविषयको जिनकल्पिकविषयको वा विज्ञेय इति ॥ सू० ३२ ॥
सूत्रम्-जे भिक्खू अण्णउत्थियाण वा गारत्थियाण वा धाउं पवेएइ पवेएतं वा साइज्जइ ॥ सू०३३॥
- छाया-यो भिक्षुरन्ययूथिकानां वा गार्ह स्थिकानां वा धातुं प्रवेदयति प्रवेदयन्तं वा स्वदते ॥ सू० ३३ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी ला 'अण्णउत्थियाण वा' अन्ययूथिकानां वा 'गारस्थियाण वा' गार्हस्थिकानां वा 'धाउं पवेएई' धातुं, धातुः पाषाणरसमृत्तिकाभेदेन त्रिविधः, पाषाणधातुः यस्मिन् पाषाणे धम्यमाने तस्मात्सुवर्ण पतति सः १, रसधातुः-यस्य जलेन आसिक्तं ताम्रादि सुवर्ण भवति सः २, मृत्तिकाधातुः-या मृत्तिका धम्यमाना सुवर्णं भवति सः ३, तादृशं धातुं श्रमणः श्रमणी वा प्रवेदयति कथयति तथा पिवेएतं वा साइज्जइ' धातुं प्रवेदयन्तं श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी, भवति तथा तस्याज्ञाभङ्गदिका दोषा भवन्ति ॥ सू: ३३ ॥