________________
चूर्णिभाष्यावचूरिः उ०१३ सू०१३-१६ जन्यतीर्घिकादीनामागााढादिवचनात्याशातनानि० ३१३ जे भिखू अण्णउत्थियं वा गारत्थियं वा अण्णयरीए अच्चासायणाए अच्चासाएइ अच्चासाएंतं वा साइज्जइ ।। सू०१६॥
छाया-यो भिक्षुरन्यतीर्थिकं वा गाईस्थिकं वा आगाढं वदति वदन्तं वा स्वदते ॥सू० १३।। यो भिक्षुरन्यतोर्थिकं वा गार्हस्थिकं वा परुष वदति वदन्तं वा स्वदते ॥१४॥ यो भिक्षुरन्यतीथिकं वा गार्हस्थिकं वा आगाढपरुष वदति वदन्तं वा स्वदते ॥ सू० १५॥ यो भिक्षुरन्यतीर्थिकं वा गार्हस्थिकंवा अन्यतरया अत्याशातनया अत्याशातयति अत्याशातयन्तं वा स्वदते ॥ सू० १६॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियं वा अन्ययूथिकं वा तापसादिकं 'गारत्थियंवा' गार्हस्थिकं गृहस्थं वा 'आगाई' आगाढम्-आगाढवचनं कोपयुक्तवचनमित्यर्थः 'वयइ' वदति-कथयति 'वयंतं वा साइज्जई' वदन्तमागाढवचनमन्यतीर्थिकं गृहस्थं प्रति वा वदन्तं श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति ॥ सू० १३॥ एवं 'फरुसं' परुषं कठोरवचनं वदति वदन्तं वा स्वदते ॥ सू० १४॥ तथा 'आगाढफरुसं' आगाढपरुषंकोपयुक्तकठोरवचनं वदति वदन्तं वा स्वदते सः ॥ सू० १५॥ एवम्-अन्यतीर्थिकं गृहस्थं वा 'अण्णयरीए-अच्चासायणाए' बन्यतरया, अन्यतीथिकाशातना-अन्यतीर्थिकं प्रति 'संसारस्वरूपं ज्ञात्वापि त्वं जिनोक्तं धर्म नाचरसि, सावधक्रियामवलम्बसेऽतस्त्वां धिक्' इत्येवं कथनरूपा । गृहस्थाशातना-गृहस्थं प्रति त्वं गृहस्थः सन द्वादश व्रतानि नाचरसे, रात्रिभोजनसंरम्भसमारम्भादिकार्य कुरुषेऽतस्त्वां धिक्' इत्येवं कथनरूपा, इत्यादिस्वरूपया एकया कयाचिदाशातनयाऽपि 'अच्चासाएइ' अत्याशातयति-अन्यतीर्थिकस्य गृहस्थस्य वा आशातनां करोति 'अच्चासाएंत' अत्याशातयन्तं वा आशातनां कुर्वन्तं वा 'साइज्जई' स्वदते स प्रायश्चित्तभागी भवति ॥१६॥
__एतदागाढादिकं कस्मिन् विषये किमर्थं वा नो वदेत् ? इत्यत्राह भाष्यकार:-'जाइकुल' इत्यादि। भाष्यमू--जाइ-फुल-रूव-भासा,-गण-बल-परियाग-जस-तवो-लाभा।
सत्त-वय-बुद्धि-धारण,-उग्गह-सीलं-समायारो ॥१॥ एएसु विसएसु य, गारस्थिय अन्नउत्थियं वावि । आगाढं फरुसं नो, वएज्ज आसायए नो वा ॥२॥ एएहि वयणेहि, साहू कुप्पेज किं पुणो अन्नो। एवं मम्मे वयणे, दोसा मरणाइया बहलो ॥३॥