________________
त्रयोदशोद्देशकः॥ गतो द्वादशोदेशकः, सम्प्रति त्रयोदशोद्देशको व्याख्यायते, तत्र द्वादशोदेशकान्तिमसूत्रेण सहास्य त्रयोदशोद्देशकादिसूत्रस्य कः सम्बन्धः ?-इति चेदत्राह भाष्यकारभष्यम्-नावाइणा उत्तरिय, काउस्सग्गं करे मुणी ।
कत्थ कुज्जा न वा कुज्जा, संबंधो इरिओ इहं । छाया--नावादिना उत्तीर्य कायोत्सर्ग कुर्यात् मुनिः ।
कुत्र कुर्यात् न धा कुर्यात् सम्बन्ध ईरित इह ॥ अवचूरिः-'नावाइणा' इत्यादि । द्वादशोद्देशकस्यान्तिमसूत्रे गङ्गादिका पञ्च महानद्यो वर्णिताः, ता नदीः कारणवशात् मासाभ्यन्तरे द्विवारं त्रिवारं वा उत्तरति तदा तस्य प्रायश्चित्तं कथितम्, तत्र नावादिना ता महानदीः समुत्तीर्य्य पारं गत्वा ऐOपथिकः कायोत्सर्गः अवश्यमैव कर्तव्यः । स च कुत्र स्थाने कर्तव्यः कुत्र न कर्तव्यः ? इति विचारणायां सचित्तपृथिव्यां न कर्तव्यः, एतस्य निषेधस्य वर्णनाय त्रयोदशोदेशकः प्रारभ्यते, अस्मिन् उद्देशके सचित्तपृथिव्यादिषु समुपविश्यैर्यापथिकाद्यावश्यककार्यकरणे प्रायश्चित्तं कथयिष्यते, अयमेव सम्बन्धः पूर्वापरसूत्रयोर्भवति, तदनेन सम्बन्धेनायातस्यास्य त्रयोदशोदेशकस्य प्रथमसूत्रमाह
सूत्रम्-जे भिक्खू अणंतरहियाए पुढवीए ठाणं वा सेज्ज वा णिसेज्जं वा णिसीहियं वा चेएइ चेएंतं वा साइज्जइ ॥सू० १॥
छाया-यो भिक्षुरनन्तरहितायां पृथिव्यां स्थानं वा शय्यां वा निषद्या वा नषेधिकी पा चेतयते चेतयमानं वा स्वदते ॥सु०१॥
. चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अणंवरहियाए पुढवीए' अनन्तरहितायां पृथिव्याम् अनन्तेन जीवेन रहिता किन्तु असंख्येयेन जीवेन युक्तता अनन्तरहिता सचित्तेत्यर्थः यतो हि पृथिवी असंख्यातजीवात्मिका भवति न त्वनन्तजीवात्मिका, अतः अनन्तरहितेत्युक्तम् , यद्वा-न अन्तरं व्यवधानम् अनन्तरं जीवव्यवधानरहितं यथा स्यात्तथा हिताः स्थिता अनन्तरहिता व्यवधानरहितजीवयुक्ता सर्वात्मना सचित्तेत्यर्थः । तस्यां सचित्तपृथिव्युपरीत्यर्थः 'ठाणं वा स्थानं वा, तत्र स्थानं कायोत्सर्गः तत् कायोत्सर्गलक्षणं स्थानम् ऊर्ध्वत्वेनावस्थितिरूपं करोति इत्यप्रिमेण सम्बन्धः, उपलक्षणत्वात् त्वग्वर्तनादिकमपि करोति 'सज्ज वा' शय्यां वा तत्र शय्या शरीरप्रमाणा तां, शयनं वा करोति 'णिसेज वा' निषधां वा उपवेशनं वा 'निसीहियं वा' नैषेधिकी वा प्राणातिपातादिनिषेधर्वकं जायमाना क्रिया स्वाध्यायरूपा नैषेधिकी, ताम् 'चैएई' चेतयते करोति 'चेएतं वा साइज्जई' चेतयमानं वा स्वदते । यो हि श्रमणः