SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे अशिवादिकारण विशेषमादाय नावादिना पारं गत्वा तत्र सचित्तपृथिव्यां स्थितः सन तत्रैव सचित्तभूमौ स्थानादिकं करोति तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोपा अपि भवन्तीति ॥ सू० १॥ ३०६ सूत्रम् - एवं जे भिक्खू ससणिद्धा पुढवीए० ॥ ०२ ॥ जे भिक्खू ससरक्खा पुढवीए० || सू० ३ ॥ जे भिक्खु मट्टियाकडाए पुढवीए० ॥ सू०४ ॥ जे भिक्खू चित्तमता पुढवीए० || सू० ५ || जे भिक्खू चित्तामंताए सिलाए ॥ सू० ६ ॥ जे भिक्खू चित्तमंताए लेलूए ठाणं वा सेज्जं वा निसेज्जं वा निसीहियं वा चेएइ चेतं वा साइज्जइ ॥ सू० ७॥ छाया - एवं यो भिक्षुः सस्निग्धायां पृथिव्याम् ० ॥ ०२ ॥ यो भिक्षुः सरजस्कायां पृथिव्याम् ॥ सू० ३|| यो भिक्षुः मृत्तिकाकृतायां पृथिव्याम् || सू० ४|| यो भिक्षुः चित्तवत्यां पृथिव्याम् ॥ ०५ || यो भिक्षुः चित्तवत्यां शिलायाम् ॥ सू० ६|| यो भिक्षुः चित्तवति ले लुके स्थानं वा शय्यां वा निपद्यां वा नेपेधिकी वा चेतयते चेतयंमान वा स्वदते ॥ सू० ७ ॥ चूर्णी - ' एवं जे भिक्खू' इत्यादि । एवम् अनेनैव प्रकारेण 'जे भिक्खू' यो भिक्षुः ससणिद्धाएपुढ़वी, सस्निग्धायां सचित्तजलेन ईप आर्द्रायां पृथिव्याम्० || सू० २ || यो भिक्षुः 'ससरख्खाए पुढवीए' सरजस्कायां = सचित्तसूक्ष्मरेणुगुण्ठितायां पृथिव्याम् ||सू० ३|| यो भिक्षुः 'महियाकडाए पुढचीए' मृत्तिका कृतायां - मृत्तिकया कृतायां संपादितायां लिप्तायां वा सचित्तमृत्तिका - संचयेन पुष्जीभूतायां पृथिव्याम्० ॥ सू० ४ ॥ यो भिक्षुः 'चित्तमंताप पुढवीए' चित्तवत्यां चित्तं - जीवः तद् विद्यते यस्यां सा चित्तवती सूक्ष्मत्रसजीवयुक्ता तस्यां पृथिव्याम् ॥ ०५ ॥ यो भिक्षुः 'चित्तमंताए सिलाए' चित्तवत्यां जीवयुक्तायां शिलायां महापाषाणखण्डरूपायां, यस्याः सन्धिभागेऽधो वा जीवानां संभवात् तस्यां शिलायाम्० || सू० ६॥ यो भिक्षुः 'चित्तमंताए बेलुए, चित्तवति ठेलुके, ठेलुकं नाम मृत्तिकाखण्ड, तस्मिन् 'ठाणं वा' स्थानं कायोत्सर्गे वा उपलक्षणात् त्वग्वर्त्तनादिकमपि, तथा 'सेज्जं वा' शय्यां वा शरीरप्रमाणां शयनं वा, 'निसेज्जं वा' निषद्याम् उपवेशनं वा 'निसीहियं वा' नैषेधिकीं वा स्वाध्यायरूपं क्रियाविशेष वा 'चेएह' चेतयते करोति, 'चेएंतं वा साइज्जइ' चेतयमातं कुर्वन्तं स्वदते अनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ७|| सूत्रम् — जे भिक्खू कोलावासंसि वा दारुए जीवपइट्ठिए सअंडे सपाणे सवीए सहरिए सओस्से सउदए सउत्तिगपणगदगमट्टिय
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy