________________
निशीयसूत्र ३०४ छाया-- यदि भवेच्च स्थलमार्ग', जलेन गच्छेत् नेव पादाभ्याम् ।
नैव दूरोहेत् नावं, तत्राऽपायानां संभवतः । अवचूरि:-यदि ग्लानस्य साधोयावृत्यादिके गाढतरे कारणे समुपस्थिते सति गमनमावश्यकं भवेत् तदा यदि तत्र गमनाथ स्थलमागों दृरतरोऽपि भवत तर्हि जलेन नद्यादिजलमार्गेण पादाभ्यां नैव गच्छेत् . नैव च नाव दूरोहेत् नौकोपरि नोपविशेत् , किमर्थमित्याह-तत्र णदाभ्यां नौकया वा गमने-अपायानां विघ्नानां वहूनां सभवात् । अपाया द्विविधाः-सयमापायाः आत्मापायाश्च । तत्र नदीजले पादाभ्यां गमने अप्कायस्य पादप्रहारेण तत्रस्थितत्रसकायानां मण्डकमत्स्यादीनां च विराधनारूपा अनेके संयमापाया भवन्ति । जले गादी पाद. पतनात् तत्समये जलपूरस्यागमनादिना चानेके आत्मापाया अपि भवन्ति, एवं नौकया गम नेऽपि विज्ञेयम् , तथाहि-नौकायाः संचरणेन जलविलोडनं भवति तेनाप्कायस्य तदधोगतानां त्रसाणां मण्डूकमत्स्यलघुजलचरादिजीवानां च विराधना भवति तेन संयमापायसंभवः, तथा नौकाया बुडनभञ्जनादिना-आत्मापायसंभवः, ततः संयमात्मविराधनादोपसद्भावात् दूरतरस्थलमार्गसंभवे साधुर्जलमार्गेण नो गच्छेदिति भावः ॥ सू० ४३॥
सूत्रम्--तं सेवमाणे आवज्जइ चाउम्मासियं परिहारहाणं अणुग्घाइयं ।। सू० ४४॥
॥निसीहज्झयणे वारसमो उद्देसो समत्तो ॥१२॥ छाया--तं सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमनुद्घातिकम् ॥४॥
॥ निशीथाध्ययने द्वादश उद्देशः समाप्तः ॥१२॥ चूर्णी-तं सेवमाणे' इत्यादि । 'तं सेवमाणे' तत् सेवमानः, तत उद्देशकादौ कथिनप्रसपाणजातिबन्धनादारभ्योद्देशकान्ते वर्णितनदोसंतरणपर्यन्तमायश्चित्तम्थानमध्यात् एकमनेकं सर्व वा प्रायश्चित्तस्थानं 'सेवमाणे' सेवमानः समाचरन् श्रमणः श्रमणी वा 'आवज्जड' आप द्यते प्रामोति 'चाउम्मासियं' चातुर्मामिकम् 'परिहारहाणं' परिहारस्थानम् प्रायश्चित्तस्थानम् 'अणुग्याइयं' अनुद्घातिकम्-लघुमासिकमित्यर्थः ॥ सू० ४४|| इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक - प्रविशुद्धगद्यपदनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "निशीथसूत्रस्य"
चूर्णिभाष्यावचूरिरूपायां व्याख्यायाम् द्वादशोद्देशकः समाप्तः ॥१२॥