________________
चूर्णिभाभ्यावचूरिः उ० १२ सू० ४३-४४ मासिकद्वत्रिचारगङ्गादिमहानद्युत्तरण निषेधः ३०३ कृत्वा, उपलक्षणादन्यस्मै वा कस्मैचिद् गृहस्थाय बालकादिभ्यो वा 'असणं वा ४' अशनं वा ४, चतुर्विधमाहारजातम् 'देइ' ददाति अन्यस्माद्दापयति वा 'देतं वा साइज्जई' ददतं वा स्वदते । यो हि अन्ययूथिकादिभ्यः कार्यमुपधिवाहनादिकं कारयित्वा तेभ्यः तन्मूल्यरूपेणानु - ग्रहेण वा आहारादिकं ददाति दापयति ददतमनुमोदते वा स प्रायश्चित्तभागी भवति, भिक्षिताशनादेरन्यस्मै दाने साघोरनधिकारित्वात् भगवतानिषिद्धत्वाच्च ॥ सू० ४२ ॥
S
सूत्रम् - जे भिक्खू इमाओ पंच महण्णवाओ महानईओ उद्दिट्ठाओ गणियाओ वंजियाआ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरइ वा संतरइ वा उत्तरंतं वा संतरंतं वा साइज्जइ । तं जहा- गंगा, जउणा, सरऊ, एवई, मही- ति ॥ सू० ४३ ॥
छाया - यो भिक्षुरिमाः पञ्च महार्णवा महानद्य उद्दिष्टा गणिता व्यञ्जिता अन्तर्मासस्य द्विकृत्वो वा त्रिःकृत्वो वा उत्तरति संतरति उत्तरन्तं वा सन्तरन्तं वा स्वदते तद्यथा - गङ्गा, यमुना, सरयू, ऐरावती, मही, इति ॥ सू० ४३||
चूर्णी -- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'इमाओ' इमा - वक्ष्यमाणाः 'पंच' पञ्च पञ्चसंख्याविशिष्णः 'महण्णवाओ' महार्णवाः समुद्रतुल्याः, आसां पञ्चनदीनां महार्णवतुल्यता च बहूदकत्वेन तथा आयामविस्ताराभ्यां वा यथा समुद्रो बहूद्दको दीर्घो विस्तृतश्च तथैव एता अपि बहूदकाः दीर्घा विस्तृताश्च सन्ति अत एव 'महाईओ' महानथः यत एव बहूदकादिविशिष्टा अत एव महानदीपदवाच्याः 'उद्दिट्ठाओ' उद्दिष्टाः कथिताः 'गणियाओ' गणिताः अन्यनदीषु महत्त्वेन गणनां प्राप्ताः 'पंजियाओ' व्यञ्जिताः प्रकटीकृता शास्त्रे प्रतिपादिता वा, एता महानदी 'अंतो मासस्स' अन्तर्मासस्य एकस्य मासस्यान्त'–मध्ये ' दुक्खुत्तो वा तिक्खुत्तो वा' द्धिःकृत्वो वा त्रिःकृत्वो वा द्विवारं वा त्रिवारं वा 'उत्तरइ चा संतरइ वा' उत्तरति वा सतरति वा, तत्र निरन्तरं तरणम् उत्तरणं चरणाभ्यां पारकरणम्, संतरणं नावादिना पारकरणम् । गाढतरकारणाभावे नदीनामुत्तरणे संतरणे चाष्कायिकस्य विराधने संयमविराधनम्, तथा गर्त्तादौ चरणपतनात् पारकरणसमये जलपूरागमनाच्च आत्मविराधनम् । अनेन प्रकारेण मासाभ्यन्तरे यः श्रमणः श्रमणी वा द्विवारं वा त्रिवारं वा उत्तरति सन्तरति वा तथा 'उत्तरंतं वा संतरंतं वा साइज्जइ' उत्तरन्तं वा सन्तरन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकारः
भाष्यम् – जड़ होज्ज य थलमग्गो, जलेण गच्छेज्ज नेव पाएहिं । नेव दुरोदे णावं, तत्थावायाण संभवओ ||