SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे ३०० पश्चिमां पौरुषीं दिवसस्य चरमपौरुपी मित्यर्थः, 'उवाइणावेड' अतिक्रामति उल्क्ष्यति चरमपौरुपीपर्यन्तं स्थापयतीत्यर्थः ‘उवाइणावेंतं वा साइज्जइ' अतिकामन्तं वा स्वदते स प्रायश्चित्तभागी भवति पर्युषितदोपसंभवात् ॥ सू० ३१ ॥ सूत्रम् -- जे भिक्खू परं अद्धजोयणमेराओ परेण असणं वा ४ उवाइणावेइ उवाइणावेंतं वा साइज्जइ ॥ सू० ३२ ॥ छाया - यो भिक्षुः परमर्द्धयोजनमर्यादातः परेण अशनं वा ४ अतिक्रामयति अतिक्रामयन्तं वा स्वदते || सू० ३२|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'परं अद्धजोयणमेराओ' परमर्द्धयोजनमर्यादातः - कोशद्वयमर्यादातोऽग्रे 'परेणं' परेण अन्येन श्रावकादिना श्राचकादिद्वारा समानीतमित्यर्थः ' असणं वा ४' अशनं वा चतुर्विधमाहारजातम् 'उवाइणावेइ' अतिक्रामयति-अशनादेरुल्लंघनं कारयति अर्थात् अत्र गृहीतमाहारं क्रोशद्वयादधिकमपि दूरं भोक्तुमन्यद्वारा नयति, अथवा क्रोशद्वयादपि अधिक दूरतो ऽशनादिकमाहारजातं परद्वारा आनयति आनयनं कारयति तथा 'उवाइणावेंतं वा साइज्जइ' अतिक्रामयन्तं वा स्वदते अनुमोदते, क्रोशद्वयादधिकदूरमशनादि परेण यः नर्यात आनयति वा तं तादृशं श्रमणमनुमोदते स प्रायश्चित्तभागी भवति ॥ सू०३२॥ सूत्रम् — जे भिक्खू दिया गोमयं पडिग्गाहेत्ता दिया कार्यंसि वणं आलिंपेज्ज वा विलिपेज्ज वा आलितं वा विलिपतं वा साइज्जइ ॥ छाया - यो भिक्षुर्दिवा गोमयं प्रतिगृह्य दिवा काये व्रणमालिम्पेत् वा विलिम्पेत् वा आलिम्पन्तं वा विलिम्पन्तं वा स्वदते ॥ सू० ३३|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दिया' दिवा - दिवसे 'गोमयं' गोमयं 'गोवर' इति भाषाप्रसिद्धम् 'पडिग्गाहेत्ता प्रतिगृह्य - रात्रौ स्थापयित्वा 'दिया' दिवा - द्वितीयदिवसे 'कार्यसि वर्णं' काये व्रणम् तत्र काये शरीरे जायमानं पामादिजन्यं व्रणम् 'आलिपेज्ज वा' आलिम्पेत् वा एकवारम् 'विंलिंपेज्ज वा' विलिम्पेत् वा अनेकवारम् | 'आलिंपतं वा' आलिम्पन्तं वा एकवारं लेपकुर्वन्तं 'विलिपतं वा' विलिम्पन्तं वा अनेकवारं लेषं कुर्वन्तं वा 'साइज्जइ' स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सु० ३३ ॥ सूत्रम् — जे भिक्खू दिया गामयं पडिग्गाहेत्ता रत्ति कार्यंसि वर्णं आलिपेज्ज वा विलिपेज्ज वा आलिंपतं वा विलितं वा साइज्जइ ॥ सू० ३४ ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy