________________
चूर्णिभाष्यावचूरिः उ० १२ सू० ३०-३३ आहारादिमर्यादाऽतिक्रमणनिषेधः २९९
छाया-या भिक्षुरैहलोकिकेपु वा रूपेषु पारलोकिकेषु वा रूपेषु दृष्टेषु वा रूपेषु अदृष्टेषु वा रूपेषु विज्ञातेपु वा रूपेषु अविज्ञातेपु वा रूपेषु स्वजति रज्यति गृध्यति अध्युपपद्यते स्वजन्तं वा रज्यन्तं वा गृध्यन्तं वा अध्युपपद्यमानं वा स्वदते ।।सू०३०॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'इहलोइएसु वा स्वेसु' ऐहलोकिकेषु वा रूपेषु, तत्र ऐहलोकिकाः मनुष्यत्र्यादिपदार्थाः तत्सम्बन्धिषु रूपेषु अनुरागकारणभूतपदार्थेषु 'परलोइएसु वा रूवेसु' पारलोकिकेषु वा, तत्र पारलोकिको देवदेव्यादिहस्तितुरगादिर्वा, तत्संबन्धिपु रूपे अनुकूलवेदनीयेपु रूपादिपरार्थनातेषु 'दिउसु वा रूवेसु' दृष्टेषु वा रूपेषु पूर्व प्रत्यक्षतो दृष्टेषु रूपादिषु वस्तुजातेषु 'अदिढेसु वा रूवेसु' अदृष्टेषु वा रूपेषु, तत्रादृष्टा देवादयः तत्सबन्धिषु रूपादिपु 'सुएसु वा रूवेसु' श्रुतेषु वा रूपेषु श्रवणेन्द्रियेण साक्षात्कृतेषु श्रवणेन्द्रियजन्यज्ञानविषयतावत्सु अनुकूलवेदनीयपदार्यजातेषु 'असुएसु वा रूवेसु' मश्रुतेषु कर्णपथमनागतेषु वा रूपेषु पदार्थजातेषु 'विन्नाएसु वा रूवेमु' विज्ञातेषु वा रूपेषु वर्तमानकालिकानुभवात्मकज्ञानविषयतावत्सु पदार्थजातेषु 'अचिन्नाएसु चा रूवेम' अविज्ञातेपु वा रूपादिपु मानसिकानुभवात्मकज्ञानविषयेषु अनुकूलवेदनीयपदार्थजातेषु उपर्युक्तहलोकिकादिपदार्थजातेषु यः श्रमणः श्रमणी वा 'सज्जइ' स्वजति आसक्तिमान् भवति 'रज्जइ' रज्यति तस्मिन् रूपादिषु अनुरागवान् भवति 'गिज्झइ' गृद्धयति रूपादिपदार्थेषु गृद्धिमान् भवति तेषु गृद्धिभावं प्राप्नोति, तत्र सर्वदा समुपलभ्यमानेष्वपि अभिरमणं गृद्धिः तां प्राप्नोति 'अज्झोववज्झइ' अध्युपपद्यते अतिशयेनासक्तिमान् भवति तथा 'सज्जत' स्वजन्तम्-आसक्ति कुर्वन्तम् 'रज्जत' रज्यन्तम् रूपादिष्वनुगगं कुर्वन्तम् 'गिज्झंत' गृद्धयन्तं रूपादिषु गृद्धिभावं कुर्वन्तम् 'अज्झोववज्जतं' अध्युपपद्यमानम् अतिशयेनासक्ति कुर्वन्तम् 'साइज्जइ' स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तेपु सङ्गादिकरणेन चारित्रपतनसंभवादिति ॥ सू० ३०॥
सूत्रम्--जे भिक्खू पढमाए पोरिसीए असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता पच्छिमं पोरिसिं उवाइणावेइ उवाइणावंतं वा साइज्जइ ॥ सू० ३१॥
छाया-योअिक्षुः प्रथमायां पौरुण्यामशन वा पानं वा खाद्यं वा स्वाधं वा प्रतिगृह्य पश्चिमां पौरुषीमतिकामति अतिक्रामन्तं वा स्वदते ।। सू० ३१॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू य. कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पढमाए पोरिसीए' प्रथमायां पौरुष्याम् दिवसस्य प्रथमपौरुष्यामित्यर्थः 'असणं वा ।' अशनं वा १ चतुर्विधाहारजातम् 'पडिग्गाहेत्ता' प्रतिगृह्य-गृहस्थेभ्य आनीय 'पच्छिमं पोरिसिं'