SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे वादयतो वा नृत्यतो वा हसतो वा रममाणान् वा मोहयतो वा पिपुलमशन वा पानं वा खाद्यं वा स्वाध का परिभाजयतो वा परिभुजानान् वा चक्षुर्दर्शनप्रतिक्षया अभिसंधार. यति अभिसन्धारयन्तं वा स्वदते । सू० २९॥ चूर्णी-'जे भिक्खू' इस्यादि । 'जे भिक्ख' यः कश्चिद् भिक्षुः श्रमण' श्रमणी वा 'विख्वरूवेसु' विरूपरूपेषु अनेकप्रकारेषु विलक्षणेषु वा 'महुस्सवेसु' वा महोत्सवेषु महान्तश्च ते उत्सवाश्चेति महोत्सवा', तेषु इन्द्रमहोत्सवादिपु, यद्वा यत्रोत्सवे अनेकप्रकारकाः धनिका आढयतमा' अकिंचनाश्चापि संमिलिता भवन्ति, यद्वा-अनेकप्रकारकाः श्रेष्ठिनो राजानो राजपुरोहिततलवगदयो मिलिता भवन्ति ताशा उत्सवा महोत्सवाः, तादृशमहोत्सवेषु 'इत्थीणि वा' स्त्रियो वा पूर्वोक्तमहोत्सवेषु संमिलिताः स्त्रिय इत्यर्थः 'पुरिसाणि वा' पुरुपान् वा साधारणतः पुरुषवर्गानित्यर्थः, 'थेराणि वा' स्थविरान् वा, तत्र स्थविराः परिपकवयसः तान् वा 'मज्झिमाणि वा' मध्यमान् वा वयसो मध्ये स्थितानित्यर्थः, 'डहाराणि वा' डहरान् वा, तत्र डहराः-अल्पवयस्काः तान् तादृशमहोत्सवे समुपस्थितान् , कीदृशान् तान् ! तत्राह-'अणलंकियाणि वा' अनलकृतान् वा कटककुण्डलाघलङ्काररहितान् वा 'मुअलंकियाणि वा' स्वलङ्कृतान् वा कटककुण्डलायङ्कारेण सुसज्जितवेषान् वा 'गायंताणि वा' गायतो वा तादृशमहोत्सवे संमिलितपुरुपेपु मध्ये केचन गानं कुर्वन्ति तान् गानं कुर्वतो वेति 'वार्यताणि वा' वादयतो वा, तलतालमृदङ्गादि वाद्य वादयतो वा 'गच्चंताणि वा' नृत्यतो वा नृत्यं कुर्वतो वा 'हसंताणि वा' हसतो वा अनेकप्रकारकहासोपहासलास्यादिकं कुर्वतो वा 'रमंताणि वा' रममाणान् वा अनेक प्रकारकक्रीडां कुर्वतो वा 'मोहंताणि वा' मोहयतो वा तादृशीं चेष्टां ये कुर्वन्ति यया परेषां मोह उत्पादितो भवेत् तादृशान् मोहोत्पादकानित्यर्थः । पुनः किं कुर्वतस्तान् । तत्राह-विउलं' इत्यादि । 'विउलं' विपुलमत्यधिकम् 'असणं वा' ४ अशनं वा ४ चतुर्विधमाहारजातम् 'परिभायंताणि वा' परिभाजयतो वा अशनादिभोज्यवस्तूनां परस्पर विभागं प्रविभव्य परस्परमादानप्रदानं कुर्वतो वा 'परिभुजंताणि वा' परिभुज्जानान् वा अशनाधाहारजातमेकत्र स्थित्वाऽऽहरतो वा' एतादृशान् पूर्ववणितप्रकारकान् स्त्रीपुरुषादीन् 'चक्खुदसणवडियाए' इत्यादि पूर्ववत् ।। सू० २९॥ . सूत्रम्-जे भिक्खू. इहलोइएसु वा रूवेसु परलोइएसु वा रूवेसु दिठेसु वा रूवेसु अदिठेसु वा रूवेसु सुएसु वा रूवेसु वा असुएसु वा रूवेसु विन्नाएसु वा रूवेसु अविन्नाएसु वा रूवेसु सज्जइ रज्जइ गिज्झइ अज्झोववेज्जइ सज्जंत वा रज्जत वा गिज्झतं वा अज्झोववज्जत वा साइज्जइ ॥ सू० ३०॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy