________________
चूर्णिभाष्यावचूरिः उ १२ सू०३४.४२ गोमया-लेपनजातमर्यादातिक्रमो-पधिवाहननि० ३०१
छाया-यो भिक्षुर्दिवा गोमयं प्रतिगृहा रात्रौ काये व्रणम् आलिम्पेत् वा विलिम्पेतू वा आलिम्पन्तं वा विलिम्पन्तं वा स्वदते । सू० ३५॥
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दिया गोमयं पडिग्गाहेत्ता' दिवा दिवसे गोमयं प्रतिगृह्य 'रर्ति' रात्रौ रजन्यां 'कायंसि' काये शरीरे संजायमानम् 'वर्ण' वणं पामादिजन्यम् 'आलिंपेज्ज वा' आलिम्पेत् वा एकवारम् 'विलिंपेज्ज वा विलिम्पेत् वा भनेकवारं 'आलिंपतं वा' आलिम्पन्तं वा 'विलिपंतं वा विलिम्पन्तं वा 'साइज्जई' स्वदते अनुमोदते स प्रायश्चित्तभागी भवति । रात्री कस्यापि वस्तुनः संग्रहनिषेधात् ।। सू० ३४॥
सूत्रम्-जे भिक्खू रत्तिं गोमयं पडिग्गाहेत्ता दिया कायंसि वणं आलिंपेज्ज वा विलिपेज्ज वा आलिपंतं वा विलिपंतं वा साइज्जइ ॥३५॥
छाया-यो भिक्षुः रात्रौ गोमयं प्रतिगृह्य दिवा काये व्रणमालिम्पेत् वा विलिम्पेत् वा आलिम्पन्तं वा विलिम्पन्तं वा स्वदते ।। सृ० ३५।।
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'रत्ति' रात्रौ रजन्याम् 'गोमयं पडिग्गाहेत्ता' गोमयं प्रतिगृह्य गृहीत्वा 'दिया कायंसि वर्ण' दिवा दिवसे द्वितीयदिवसे काये शरीरे संजायमानं व्रणम् 'आलिंपेज्ज वा' आलिम्पेत् वा 'विलिंपेज वा' विलिम्पेत् वा आलिंपतं वा विलिपंतं वा साइज्जई' आलिम्पन्तं वा विलिम्पन्तं वा स्वदते स प्रायश्चित्तभागी भवति । रात्रौ कस्यापि वस्तुनो ग्रहणनिषेधात् , पर्युषितदोषसंभवाच्च ।। सू० ३५॥
सूत्रम्-जे भिक्खू रतिं गोमयं पडिग्गाहेत्ता रतिं कायंसि वणं अलिंपेज्ज वा विलिंपेज्ज वा आलिपंतं वा विलिंपंतं वा साइज्जइ ॥
छाया-यो भिक्षुः रात्रौ गोमयं प्रतिगृह्य रात्रौ काये व्रणमालिम्पेत् वा विलिम्पेत् वा आलिम्पन्त वा विलिम्पन्तं वा स्वदते ।। सू० ३६॥
चर्णी_जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'रत्ति' रात्रौ रजन्याम् ‘गोमयं पडिग्गाहेत्ता' गोमयं प्रतिगृह्य गृहीत्वा रत्ति' रात्रौ रजन्याम् तस्यामेव रजन्यां द्वितीयरनन्यां वा 'कार्थसि वर्ण' काये शरीरे संजायमानं व्रणम् 'आलि. पेज्ज वा' आलिम्पेत् वा 'विलिंपेज्ज वा' विलिम्पेत् वा 'आलिपतं वा विलिपतं वा साइज्जई' आलिम्पन्तं वा विलिम्पन्तं वा स्वदते स प्रायश्चित्तभागी भवति, रात्रौ ग्रहणस्य संग्रहस्य परिभोगस्य च दोपसद्भावेन निषिद्धत्वात् ।। सू० ३६॥