________________
चर्णिमायावरि उ०१२सु. ३-८
प्रत्याख्यानभङ्गादिनिषेधः २८५ अदृढत्वं नायेत, तथा अन्य परित्यक्ष्यति करिष्यति चान्यमिति माया स्यात् , अन्य भाषते अन्य करोतीति मृषावादोऽपि भवेत् , एवं करणे सूत्रार्थपौरुषीणां विनाशोऽपि भवेत् , इत्यादयो बहवो दोषा भवन्ति तस्मात्कारणात् प्रत्याख्यानस्य भङ्गं न कुर्यात् न वा प्रत्याख्यानभङ्गं कुर्वन्तमनुमोदेत ॥ सू० ३।।
सूत्रम्-जे भिक्खू परित्तकायसंजुत्तं आहारं आहारेइ आहारेतं वा साइज्जइ ॥ सू०४ ॥
छाया-यो भिक्षुः परीतकायसंयुक्तमाहारमाहरति आहरन्तं वा स्वदते ॥४॥
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् निर भिक्षुः श्रमणः श्रमणी वा 'परित्तकायसंजुत्तं' परीत्तकायसंयुक्तं, तत्र परीतकायः-वनस्पतिकायः साधारणप्रत्येकेतिद्विविधो वनस्पतिकायः, तेन सचित्तवनस्पतिकायेन संयुक्त संमिलितम् आहारम्-अशनपानखाद्यस्वाद्यात्मकचतुर्विधमाहारम् ‘आहारेई' आहरति भुङ्क्ते तथा 'आहारेतं वा साइजई आहरन्तम् सचित्तवनस्पतिकायसंयुक्तमशनादिकं भुञ्जानं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।।सू० ४॥
सूत्रम्-जे भिक्खू सलामाइं चम्माई धरेइ धरतं वा साइज्जइ ॥ छाया-यो भिक्षुः सलोमानि चर्माणि धरति घरन्तं वा स्वदते ॥सू० ५॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी ना मनोमाई सलोमानि-रोमयुक्तानीत्यर्थः 'चम्माई' चर्माणि मृगादीनाम् 'घरेइ' धरति स्वसमीपे उपभोगाय स्थापयति तत्रोपविशति तत्र निषीदति तत्र वगवर्तनं च करोति, तथा 'धरेंत वा साइज्जई' धरन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति तेषां दुष्प्रतिलेल्यत्वात । देशविशेषे हिमबाहुल्यादिकारणवशाच्चर्मधारणमावश्यकं भवेत्ततस्तद्विषयकोऽयं निषेध इति विवेकः ॥ सू० ५॥ . सत्रम-जे भिक्खु तणपीढगंवापलालपीढगं छगणपीढगं वेत्तपीढगं वा परवत्थेणोच्छन्नं अहिट्ठइ अहिट्ठतं वा साइज्जइ ॥ सू०६॥
छाया-यो भिक्षुः तृणपीठकं वा पलालपीठकं वा छगण (गोमय) पीठकं वा घेत्रपीठकं वा परवस्त्रेणावच्छन्नमधितिष्ठनि अधितिष्ठन्तं वा स्वदते ।।सू० ६॥
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'तणपीढगं वा तृणपीठकं वा, तत्र तृणो दर्भादिकः, तस्य पीठमित्यर्थः तृणमयमासनमिति यावत्