________________
ww.~rnvrrow
૨૮૪
निशीयसूत्र गतो भवेत् तदा साधुगृहस्थस्य प्रसन्नतानिमित्तं तद्वशीकरणाथं च तं स्वाभिमुखीकरणार्थ बध्नाति,, एवं प्रातर्वनगमनवेलायां मुञ्चति च, स च विचारयति यदत्र गृहस्थोऽनुपस्थितः पशुश्च वनादागतः, एनं यदि न बध्नामि तदाऽयमन्यत्र गमिष्यति चोरो हरिष्यति तदा गृहस्थम्य महती हानिर्भविष्यतीत्यादि, तथा यदि वाटके गौमहिपी वा निबन्धना स्थास्यति तदा वत्सो दुग्धं पास्यति तेन गृहस्थात्य दुग्धमल्पं भविष्यति तेन तस्य दुग्घहानिर्भविष्यति तेन कुपितो गृहस्थो मन्यमशनादि न दास्यति वसतितो वा निष्कासयिष्यतीति बध्नाति, एवं प्रातर्वनगमनसमये गृहस्थानुपस्थिती मुञ्चति च एवं तत्करुणया तद्भयेन वा गोमहिप्यादिक बध्नाति मुञ्चति च तदा स प्रायश्चित्तमागी भवति, एतद् गृहस्थकार्यमिति संयमात्मविराधनावश्यम्भाविनी यथा-एवं करणे साधोहस्थानुचरता तल्किंकरता च भवति, तेन संयमे महान् दोष आपयेतेति संयमविराधना स्पष्टा । तथा पशोर्बन्धने यदि पशवः स्वचरणादिना साधुं हन्ति तेन पीडितो भवेत् नियेत वेति आत्मविराधनाऽवश्यम्भाविनीति सयमात्मविराधना स्पष्टा । तथा भाप्ये यत् कथितम्-'न दोसो अणुकंपणे' इति, अस्यायं विवेकः-पशुबन्धनस्थाने यदि सर्पादयो घातकपाणिनः संचरन्ति तदा तदंशनादिसंभवः, कूपे गर्तादौ वा पशुः पतेत् गृहस्थश्चानुपस्थितो वर्तते इति तद्रक्षावुद्धया परिस्थित्यनुसारेण पशोर्बन्धनं मोचनं चावश्यकं भवेत् , अथवा पशुगृहं वहनिना प्रज्वलितं प्रज्वलनशका वा तत्र भवेत् तदा गृहस्थानुपस्थितौ तद्रक्षणार्थ पशोर्वन्धनं मोचनं चावश्यकमिति तत्र पशोबन्धने मोचने च माधोर्न कोऽपि दोषः, एवमकरणे प्राणिवधजन्यपापभागी भवति "अहिंसा परमो धर्मः" इति जैनसिद्धन्तोऽपि विलीनो भवेत् , अत एतादृशावस्थायां साधुः पशोर्बन्धनं मोचनं च करोति तदा न कोऽपि दोष इति । सू० २॥
सूत्रम्-जे भिक्खू अभिक्खणं अभिक्खणं पच्चक्वाणं भंजइ भंजंतं वा साइज्जइ ।। सू० ३॥
छाया-यो भिक्षुरभीक्ष्णमभीषणं प्रत्याख्यानं भनक्ति भञ्जन्तं वा स्वदते । सू० ३॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः प्रमणः श्रमणी वा 'अभिक्खणं अभिक्खणं' अभीक्ष्णमभीक्ष्णं वारंवारम् 'पचक्खाणं' प्रत्यारव्यानं नमोक्कारपोरुप्यादिप्रत्याख्यानम् 'भंजइ' भनति त्रोटयति 'भजतं वा साइज्जइ' भञ्जन्तं त्रोटयन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोपा भवन्ति, अन्योऽपि दोपो भवति-यथाऽयं नमस्कारादिप्रत्याख्यानं भनक्ति तथा मूलगुणप्रत्याख्यानस्यापि भङ्गकरिष्यति, एवम् अगीतार्थानां गृहस्थानां च अविश्वासं जनयति, तथा प्रत्याख्यानमाने लोकः साधूनामवर्णवादं करिष्यति, एवं प्रत्याख्यानभङ्गकरणे प्रत्याख्यानधर्मे श्रमणधर्म वा