________________
पूर्णिमाम्यावचूरिः उ० १२ सू० १-२ प्रसप्राणजातिवन्धनमोचननिषेधः २८३ नाम लताविशेषः 'नेतर' 'बेंत' इति लोकप्रसिद्धः, तस्य बन्धनेन 'सुत्तपासएण वा' सूत्रपाशकेन वा कार्पासादिकसूत्रबन्धनेनेत्यर्थः, 'रज्जुपासएण वा' रज्जुपाशकेन वा, तत्र रज्जुः शणादिनिर्मिता तद्वन्धनेनेत्यर्थः 'वैधई' बध्नाति यः खलु श्रमणः श्रमणी वा शय्यातरप्रसन्नताबुद्धया तृणाद्यन्यतमबन्धनेन प्रसप्राणिजातं बध्नाति बन्धने क्षिपति तथा 'बंधतं वा साइज्जई' बघ्नन्तं वा स्वदते, अनुमोदते स प्रायश्चित्तभागी भवति, बन्धनकरणे प्राणातिपातस्य संभवात् अतो भिक्षुः कस्यापि प्राणिजातस्य शय्यातरप्रसन्नताबुद्ध्या तृणाद्यन्यतमबन्धनेन न बन्धनं कुर्यात् न वा बन्धनं कारयेत् न वा बध्नन्तमनुमोदेत ॥ सू० १॥
सूत्रम्-जे भिक्खू कोलुणवडियाए अण्णयरं तसपाणजाई तणपासएण वा मुंजपासएण वा कट्टपासएण वा चम्मपासएण वा वेत्तपासएण वा सुत्तपासएण वा रज्जुपासएण वा बद्धेल्लगं मुंचइ मुंचंतं वा साइज्जइ ।।
छाया-यो भिक्षुः कारुण्यप्रतिक्षया अन्यतरां प्रसप्राणजाति तृणपाशकेन वा मुञ्जपाशकेन वा काष्ठपाशकेन वा चर्मपाशकेन वा वेत्रपासकेन वा सूत्रपाशकेन पा रज्जुपाशकेन वा बद्धं मुञ्चति मुञ्चन्तं वा स्वदते ॥सू० २॥
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः श्रमणः श्रमणी या 'कोलुणवडियाए' कारुण्यप्रतिजया गृहस्थानुकंपयेत्यादि सर्व पूर्ववद् व्याख्येयम् , नवरम् 'वडेल्लग' बद्धं सन्तं गोमहिष्यजादिकं शय्यातरानुपस्थितौ वनगमनवेलायां तत्प्रसन्नार्थम् 'मुंचई मुश्चति बन्धनमुक्तं करोति 'मुंचत वा साइज्जइ' मुश्चन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकार:भाष्यम्-सिज्जायरपसन्नटुं, बंधए मुंचए पम् ।
दोसभाई भवे भिक्खू, न दोसो अणुकंपणे ॥ छाया-शच्यातरप्रसन्नार्थ बध्नाति मुञ्चति पशून् ।
दोपभागी भवेद् भिक्षुः, न दोषोऽनुकम्पने ॥ अवचरि:-यः साधुः शय्यातरप्रसन्नार्थ शय्यातरस्य प्रसन्नतानिमित्तं 'पसू' पशून् गोवत्सादीन् 'बंधए' बध्नाति तथा 'मुंचए' मुञ्चति स भिक्षुः 'दोसभाई' दोषभागी आज्ञाभङ्गादिदोषभाग् 'भवे' भवेत् , किन्तु 'अणुकंपणे' अनुकम्पने अनुकम्पायां 'दोसो न दोषो न भवति, पशोरनुकम्पया अग्न्याधुपद्रवे तस्य बंधने मोचने वा साधुर्दोषभाग् न भवतीत्यर्थः । अत्रायं विवेकः-गृहस्थप्रसन्नार्थ बध्नाति मुञ्चति यथा-गोमहिण्यादिनात् घासं चरित्वा समा