________________
॥ द्वादशो देशकः ॥
व्याख्यात एकादशोद्देशकः, साम्प्रतमवसरप्राप्तो द्वादशोद्देशकः व्याख्यायते, तत्र - एकादशोद्देशकस्यान्तिम सूत्रेण सह द्वादशोदेशकस्यादिसूत्रस्य कः सम्बन्ध इति चेदत्राह भाष्यकार:
भाष्यम् – मरणपसंसा नो चे, कप्पड़ भिक्खुस्स तं कई काउं । बद्धस्स होज्ज मरणं, कत्थइ तस्स य निसेोऽत्थ ॥१॥ छाया - मरणप्रशंसा नो चेत् कल्पते भिक्षोः तत् कथं कर्तुम् । बद्धस्य भवेन्मरणं, कथ्यते तस्य च निषेधोऽत्र ॥१॥
अवचूरि : - गिरिपतनादिकं बालमरणं प्राणातिपात इति कृत्वा यदि तस्य प्रशंसनं न कल्पते तदा तत् मरणं कत्तु कथं कल्पते ! तत्तु सुत्तरां नैव कल्पते, तच्च मरणं बद्धस्य भवेत् इत्यतोऽत्र द्वादशोदेशके तस्य बन्धस्य निषेधः कथ्यते, एष एव एकादशोदेशकेन सहास्य द्वादशोद्देशकस्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य द्वादशोदेशकस्येदमादिसूत्रम् — 'जे भिक्खू कोल्लुणवडियाए' इत्यादि ।
सूत्रम् — जे भिक्खू कोलुणवडियाए अण्णयरं तसपाणजाई तण - पासएण वा मुंजपासएण वा कट्टपासएण वा चम्मपासएण वा वेत्तपासएण वा सुत्तपासएण वा रज्जुपासएण वा बंधइ बंधतं वा साइज्जइ ॥ सू० १ ॥
छाया- -यो भिक्षु कारुण्यप्रतिज्ञया अन्यतरां त्रसप्राणजातिं तृणपाशकेन वा मुजपाशकेन वा काष्ठपाशकेन वा चर्मपाशकेन वा वेत्रपाशकेन वा सूत्रपाशकेन वा रज्जुपाशकेन वा बध्नाति बध्नन्तं वा स्वदते ॥सू० १||
1
चूर्णी — 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'कोलुणवडियाए' कारुण्यप्रतिज्ञया - करुणाबुद्धया, तत्र करुणाया भावः कारुण्यं तस्य प्रतिज्ञेति वाञ्छा कारुण्यप्रतिज्ञा, तया शय्यातरकरुणाबुद्धया यदि बुभुक्षितो वत्सः स्वेच्छया दुग्धं पास्यति तदा दोहनसमये गृहस्थस्याल्पं दुग्धं मिलिष्यति ततो गृहस्थस्याधिकं दुग्धं भवतु इति गृहस्थस्य प्रसन्न - तार्थ, तथा यदि गृहस्थः प्रसन्नो भविष्यति तदा मह्यं अन्यस्मै वा साधवे प्रभूतमशनादि वसत्या - दिकं च दास्यतीति गृहस्थानुग्रहार्थ 'अण्णयरं तसपाणजाई' अन्यतरां त्रसप्राणजाति गोमहिष्यनाप्रमृतिरूपां 'तणपासएण ' तृणपाशकेन वा तत्र तृणो दर्भादिः तस्य पाशको बन्धनम्, तेन तृणबन्धनेन बध्नातीत्यग्रेण सम्बन्धः । ' मुंजपासएण वा' सुञ्जपाशकेन वा, तत्र मुञ्जो नाम तृणविशेषः तस्य पाशकेन बन्धनेनेत्यर्थः, 'कट्टपासएण वा' काष्ठपाशकेन वा काष्ठबन्धनेनेत्यर्थः 'चम्मपासएण वा' चर्मपाशकेन वा मृगादिचर्मबन्धनेन 'वेतपासएण वा' क्षेत्रपाशकेन वा, तत्र वेत्रो