________________
चूर्णिभाष्यावचूरिः उ. ११ सू.० - ९३
उद्देशकसमाप्तिः २८१ मरणं प्रशंसति तेषां प्रशंसां करोति कुर्वन्तं वा अनुमोदते स परस्मिन् आत्मनि वा मिथ्यात्व - स्थिरीकरणादिबहुदोषान् प्राप्नोति, यथा लोका एवं विचारयन्ति यत् इमे साधवः सर्वथा सुस्थिता - त्मनः ते ईमे गिरिपतनादिकं मरणं प्रशंसन्ति अतो निश्चितमेतत् गिरिपतनादिकं मरणं श्रेयस्कर मतोऽवश्यमेव करणीयम् नास्ति एतादृशमरणकरणे कोपि दोषः, एवं प्रकारेण मिध्यात्वमेव स्थिरीकृतं भवति । तथा एवं कुर्वन्तो भाज्ञाभङ्गादिकाननेकान् दोषानपि लभेरन् । एवम् बालमरणस्य प्रशंसाकरणे शैक्षकः परिपहपराभूतः विंशतिमरणानां मध्यादेकतरमपि मरणं प्रतिपद्येत तदा निर्दयता समापद्यते, तेन तद्विराधनाजन्यं प्रायश्चित्तं प्राप्नुयात् तस्मात् बालमरणानि न प्रशसेत् । एषु विंशतिविधेषु मरणेषु वैहायसं गृनपृष्ठं चेति मरणद्वयमागमज्ञा - जीवदया चारित्रपतनादिकारणे समुत्पन्ने प्रशंसन्ति, तथाहि - यथा केनापि हिंसकपुरुषेण गृहीतो भवेत् स यदि तं जीवहिंसायां प्रेरयति, अथवा मैथुनार्थिन्या कामिन्या गृहीतो भवेत् सा यदि तं मैथुन सेवनार्थं प्रेरयति एतादृश्यां स्थितौ अगतिकगतिकः सन् वैहायस मरणं समाद्रियते तदा तत्तस्य मरणं प्रशंसनीयं भवेत् । तथा श्रृतिबलसंपन्नो मुनिगृभ्रपृष्टमरणं करोतीति साधोराचरणीयत्वेन गृध्रपृष्टमरणमपि - प्रशंसनीयमेव भवति तेनैतदृद्वयमपि मरणं कारणे प्रशंसायोग्यं भवति । सूत्रे यो निषेधः स दुःखाभिभूतमरणविषयको विज्ञेय इति विवेक. ॥ सू० ९२ ॥
सूत्रम् - तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्धा -. इयं ॥ सू० ९३ ॥
॥ निसीहज्झयणे एगारसोद्देसो समत्तो ॥ ११॥
छाया - तत् सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमनुद्घातिकम् ॥ सू० ९३ ॥ ॥ इति निशीथाध्ययने एकादशोदेशकः समाप्तः ॥ ११ ॥
चूर्णी – 'तं सेचमाणे' इत्यादि । 'तं सेवमाणे' तत् सेवमान. 'अयपायाणि चा' इत्यारम्य 'बालमरणाणि पसंसद्' इति पर्यन्तप्रायश्चित्तस्थानानां मध्यादेकस्यापि कस्यचिप्रायश्चित्तस्थानस्य प्रतिसेवनां कुर्वन् श्रमणः श्रमणी वा आवज्जइ' आपद्यते प्राप्नोति 'चाउम्मासिय' चातुर्मासिकम् 'परिहाराणं' परिहारस्थानं प्रायश्चित्तम् 'अणुग्धाइयं' अनुद्घातिकम् गुरुकम् प्रायश्चित्तं लभते इति ॥ सू० ९३ ||
इति श्री - विश्वविख्यात - जगहल्लभ - प्रसिद्धवाचक – पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्ध गद्यपद्यनैकग्रन्थनिर्मापक - वादिमानमर्दक- श्री शाहू छत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य " पद भूषित - कोल्हापुरराजगुरु - बालमाचारि - जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री - घासीलालवति - विरचितायां "निशीथसूत्रस्य"
-
चूर्णि भाष्यावचूरिरूपायां व्याख्यायाम् एकादशोदेशकः समाप्तः ॥११॥
३६