________________
निशीथसूत्रे
ઘૂંટ
तत् अभूतपूर्व भूतपूर्व च विस्मापनं भवति । तत्र यद् विस्मापनं विद्यामन्त्रेन्द्रनालिकादिप्रयोगरूपम् आत्मना अकृतपूर्वम्, अन्येन वा क्रियमाणं न दृष्टं न श्रुतं वा तद् अभूतपूर्व विस्मापनं कथ्यते । एतद्विपरीतं यत् स्वयं कृतं परेण वा क्रियमाणं दृष्टं श्रुतं वा तादृशं विस्मापनं भूतपूर्व कथ्यते । एतादृशं विस्मापनं स्वस्य परस्य वा यो भिक्षुः करोति कारयति वा कुर्वन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति । तथा एतादृशविस्मापनेन हर्षातिरेकात् आश्चर्यातिरेकाद्वा कदाचित् स्वयमेव विक्षिप्तचित्तो भवेत् ततः स विक्षिप्तचित्तेन चान्यैः सहाधिकरणं करोति, अधिकरणे च जाते सूत्रार्थयोर्हानिः संयमात्मविराधना च स्यात्, तथा परो वा कदाचित् तादृशमाश्चर्यादिकं दृष्ट्वा श्रुत्वा च विक्षिप्तचित्तो भवेत् तत्रापि एते दोषा भवेयुः । असद्भूते च विस्मापने मायाकरणं मृषावादोऽपि भवेत् । यस्मादेते दोषा विस्मापने भवन्ति तस्मात्कारणात् श्रमणः श्रमणी वा । कदाचिदपि स्वात्मानं वा परं वा न विस्मापयेदिति भावः ||सू० ६७॥
www.
सूत्रम् -- जे भिक्खू अप्पणं विप्पारियाes विप्परिया संतं वा साइज्जइ ॥ सू० ६८॥
छाया - यो भिक्षुरात्मानं विपर्यासयति विपर्यासयन्तं वा स्वदते ॥सू० ६०॥
चूर्णी - 'जे भिक्खू' इयादि । 'जे भिक्खू' यः कश्चिद भिक्षुः श्रमणः श्रमणी वा 'अप्पाणं' आत्मानं स्वात्मानम् 'विप्परिया सेइ' विपर्यासयति, तत्र विपर्यासो विपर्ययकरणं, यो द्रव्यादिभावो येन प्रकारेण स्थितः तं भावम् अन्यथा प्रकारान्तरेण मनसा भणति क्रियायां वा परिणमयति; यथा जीवमजीवं प्ररूपयति, अजीवं जीवं प्ररूपयति धर्ममधर्म प्ररूपयति, अधर्म धर्ममित्यादि । अन्यस्य वा पुरतः प्ररूपयति, तथा 'विप्परिया संतं वा साइज्जइ' विपर्यासयन्तं वा स्वदते, यो हि अन्यथा स्थितस्य भावस्य प्रकारान्तरेण प्रज्ञापनादिकं करोति तं योऽनुमोदते स प्रायश्चित्तभागी भवति ||सू० ६८ ॥
सूत्रम् — जे भिक्खू परं विपरियासेइ विपरियासंतं वा साइज्जइ ॥ सू० ६९ ॥
छाया - यो भिक्षुः परं विपर्यासयति विपर्यासयन्तं वा स्वदते । सू० ६९||
चूर्णी – 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद भिक्षुः श्रमणः श्रमणी वा 'परं' परं - स्वस्मादन्यं श्रमणं श्रावकं वा 'विपरिया सेइ' विपर्यासयति अन्यथास्थितस्य द्रव्यादिभावस्य प्रकारान्तरेण प्ररूपणां करोति तथा 'विपरियासंतं वा साइज्जइ' विपर्यासयन्तं वा स्वदते । स प्रायश्चितभागी भवति ॥