________________
चूर्णिभाष्यावचूरिः उ. ११ सू० ६६-६९
स्वपर विस्मापनविपर्यासननिषेधः २६७
प्रायश्चित्तभागी भवति । तत्रात्मानं परं च भापयन् स्वात्मानं परं च नापेक्षते विभ्यन् स्वयं परो वा क्षिप्तचित्तो भवेत् ग्लानत्वं च भवेत् भीतो वा भूतेन गृहीत इव भवेत् ग्रहगृहीतो वाऽन्यं भापयति । एवं संयमविराधनं कदाचिदात्मविराधनं चापि प्राप्नुयात् तस्मात्कारणात् न स्वात्मानं तथा परं च भापयेदिति ॥ स्र० ६५||
सूत्रम् - जे भिक्खू अप्पाणं विम्हावेइ विम्हावेंतं वा साइज्जइ ॥ ६६ ॥
छाया - यो भिक्षुरात्मानं विस्मापयति विस्मापयन्तं वा स्वदते ||सू० ६६||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अप्पा' आत्मानं - स्वात्मानम् 'विम्हावेइ' विस्मापयति, तत्र विस्मयोत्पादनं विस्मापनम् आश्चर्यसमुत्पादनमित्यर्थः, 'विम्हावेंतं वा साइज्जइ' विस्मापयन्तं वा स्वदते अनुमोदते । यो हि स्वात्मानं विस्मापयति विस्मापयन्तं वा अन्यमनुमोदते स प्रायश्चित्तभागी भवति ||सू० ६६ ॥
सूत्रम् — जे भिक्खू पर विम्हावेइ विम्हावेंतं वा साइज्जइ ॥ सू० ६७॥ छाया - यो भिक्षु. परं विस्मापयति विस्मापयन्तं वा स्वदते ||सु० ६७||
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'परं' परं - स्वस्मादन्यम् जनम् 'विम्हावेइ' विस्मापयति तत्र विस्मापनमाश्चर्य जनयति 'विम्हावेंतं वा साइज्जई' विस्मापयन्तं वा स्वदते, यो हि अन्यननस्य आश्चर्यकारिवाक्यांदिना आश्चर्यमुत्पादयति तं यो अनुमोदने स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकारः
1
भाष्यम् - विम्हावणं उदुविहं, अभूयपुत्रं च भूयपु तव - इंदजाल - विज्जा - निमित्त - वयणाइहिं चेव ||
छाया - विस्मापनं तु द्विविधम् अभूतपूर्वं च भूतपूर्वं च । तप - इन्द्रजाल-विद्या-निमित्त-वचनादिभिश्चैव ॥
"
अवचूरि : - षट्षष्ठीसूत्रे सप्तघष्ठीसूत्रे च यत् विस्मापनं कथितम् तव द्विविधं द्विप्रकारक भवति एकमभूतपूर्वं, द्वित्तीयं भूतपूर्वं तत्र यादृशमाश्चर्यं पूर्वं कदाचिदपि नाभूत् तद् अभूतपूर्वम्, यत्पूर्वं कदाचिद् अभूत् तादृशं भूतपूर्वम् एतत् द्विप्रकारकमपि विस्मापनम् तप आदिना तपसा तपोलब्ध्या भवति, इन्द्रजालेन विस्मयकारिप्रयोगप्रतिपादकशास्त्रेण, विद्यया दृष्टिबन्धादिरूपया मंत्रादिविशेषेण वा विस्मापनं भवति, तथा निमित्तवचनेनापि अतीतानागतवर्तमान सम्बन्धिनिमित्त. वचनेन, आदिशब्दात् अन्तर्द्धानादिना पादलेपनादिप्रयोगेण वा, एभिः कारणैः विस्मापनं भवति,