SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे २६६ 'परं' परं स्वस्मादन्यम् 'वीहावेइ' भापयति परस्मै भयं समुत्पादयति तथा चीहारतं वा साइज्जइ' भापयन्तं भयं समुत्पादयन्तमन्यं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति । www ww अत्राह भाष्यकारः भाष्यम् - भयं चउन्विहं वृत्तं दिव्यमाणुसतेरियं । आकहियं च एक्केक्कं संतासंतं पुणो दुहा ॥१॥ छाया - भयं चतुर्विध प्रोक्तं दिव्यमानुपतरश्चम् । आकस्मिकं च एकैकं सदसत् पुनर्द्विधा ॥१॥ - 1 9 अवचूरिः - भयं चतुर्विधं चतुःप्रकारकं भवति तथाहि - दिव्यं - देवसम्बन्ति मानुषं मनुष्यसम्बन्धि, तैरथं तिर्यक्मम्बन्धि, तत्र पिशाचादिव्यन्तरजनितं भयं दिव्यम्, स्तेनादिभिजयमानं भयं मानुपं, तथा पृथिव्यप्तेजोवायुवनस्पति सिंहादिभ्यो जायमानं भयं तैरश्चम्, तथा चतुर्थं भयमाकस्मिकं निर्हेतुकम् । एकैकं भयं पुनरपि द्विप्रकारकं भवति मत्विद्यमानम्, असत् - अविद्यमानं, भयं द्विविधं सद्रूपेण असद्रूपेण च तत्र पिशाचस्तेनजलादिसिंहादिकेषु समुपस्थितेषु दृष्टेषु च यद् भयं समुत्पद्यते तत्सद्रूपं भयम्, यद् एतेषु अपि भयं जायते तत् अद्रूपं भयम् । आकस्मिकम् - अकस्माद् भयम् आत्मसमुत्थं मोहनीयभयप्रकृत्युदयात् यद् अविद्यमानं सत् समुत्पद्यते तदा कस्मिकं भयम् इदं भयकारणसंकल्पिताभिप्रायोत्पन्नं भवतीति । अत्र शिष्यः प्राह - भो गुरो ! शाखे तु इहलोकादिकं सप्तविधं भयं कथितं तद्यथा - इहलोकभयम् १. परलोकभयम् २, आदानभयम् ३, आजीविकाभयम् ४, अकस्माद्भयम् ५, मरणभयम् ६, अश्लोकभयं चेति । तत्कथमत्र चतुर्विधमेव भयं प्रतिपाद्यते ? इति । एवं शिष्येण पृष्ट आचार्यः प्राह - मो. शिष्य ! यद्यपि सप्तप्रकारकं भयं तथापि सप्तानामपि चतुर्व्वेवान्तर्भावस भावादत्र चतुर्विधं प्रोक्तम्, तथाहि - इहलोकभयं मनुष्यभये समाविष्टं भवति १, परलोकभयं देवभये तिर्यग्भये च समाविशति २, आदानभयमाजीविकाभयं मरणभयम् अश्लोकभयं चेति भयचतुष्टयमपि दिव्यमानुपनैरश्वरूपे भयत्रये यथायथं समाविष्टं भवति ६, यत आदानेन हस्तस्थितेन वस्तुना भयं 'हस्तगत मे वस्तु देवमनुजनिर्यश्चो माहियेरन्' इत्येवं रूपं भयमादानभयम्, तथा आजीविका नाम वृत्ति, सा च वृत्तिर्देवमनुजतिर्यगधीना, तथा मरणं प्राणपरित्यागः, तदपि दिव्यमनुजतिर्यग्भवावस्थितस्यैव भवति, अकस्मात्कारणात् दिव्यादिभ्यस्त्रिभ्य एव मरणभयं भवति ६, अश्लोकभयमपि दिव्यमनुज तिर्यक्ष्वेव सभवति 9 तस्मात्कारणात् भयचतुष्टये सप्तानामुपि भयानां समावेशो भवति । तथा च राक्षसपिशाचादिजन्यं भयं दिव्यभयम् १, स्तेनादि - कभयं मनुजभयम् २ - उदकादिसिंहादिमयं तिर्यग्भयम् २, मोहनीयप्रकृत्युदयजन्यमात्मसमुत्थमाकस्मिकभयम् ४, अस्माच्चतुर्विधभय मध्यादन्यतमभयेन स्वात्मानं परं वा तदुभयं च भापयति "
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy