________________
चूर्णिभाष्यावचूरिः उ. ११ सू.०-७०-७१ जिनोक्ताऽन्यप्रशंसनवैराज्यविरुद्धराज्यगमनादिनि• २६९
अत्राह भाष्यकारः
भाष्यम् – जंरुवो जो भावो भवेज्ज णियओ य अण्णा सो उ । भण्णइ किज्जइ लोए, विप्परियासो इमो होइ ॥ १ ॥
छाया - यद्रूपो यो भावो भवेत् नियतश्च अन्यथा स तु । भण्यते क्रियते लोके, विपर्यासः अयं भवति ॥ १॥
अवचूरि : - लोके यद्रूपो यादृशो भावो नियतः निश्चितो भवति स तु अन्यथा भण्यते, एतावदेव न किन्तु क्रियतेऽपि च अयं विपर्यासो भवतीति विपर्यासलक्षणम् ॥१॥ अथ विपर्यासस्य भेदान् उदाहरणांश्च दर्शयति भाष्यकारः-
भाष्यम् – दव्ये खेत्ते काले, भावे य चउन्विहो विवज्जासो । कमसो वोच्छं तेसिं, नाणतं सत्यभासाए ॥१॥ दव्वे असोोगमाई, खेत्ते गराइयं मुणेयव्वं । काले ओगाढ़ाई, भावे पुण निव्वुयाई य ॥२॥
छाया - द्रव्ये क्षेत्रे काले, भावे च चतुर्विधो विपर्यासः । क्रमशो वक्ष्ये तेषां नानात्वं शास्त्रभाषया ॥२॥ द्रव्ये अशोकादि, क्षेत्रे नगरादिकं शातव्यम् । काले आगाढादि, भावे पुनर्निर्वृतादि च ॥३॥
अवचूरिः - योऽयं सूत्रद्वये विपर्यासः कथितः स द्रव्यक्षेत्रकालभावमेदेन - चतुर्विधः चतुःप्रकारको भवति । एषां द्रव्यक्षेत्रादिमेदभिन्नानां विपर्यासानां नानात्वं क्रमशः आनुपूर्व्या शास्त्रभाषया शास्त्रोतभाषाविधिना वदये कथयिष्यामि । तत्र द्रव्ये विपर्यासो यथा - अजानता पृच्छकेन पृष्टे किमपि अशोकादिकं वृक्षं प्रति निम्बादिकथनम्, निम्बादिकं प्रति अशोकादिकथनम् १ | क्षेत्रे विपर्यासः - हस्तिशीर्षनगरस्य हस्तिनागपुरत्वेन कथनम्, अथवा तद्विपरीतकथनम् २, काले विपर्यासः–आगाढं-प्राप्तं पौरुष्यादिकालं प्रति अनागाढमप्राप्तं कालं कथयति, तद्विपरीतं वा कथयति ३, भावे विपर्यासः - स्वकमनिर्वृतं निर्वृतत्वेन दर्शयति परं निर्वृतमपि अनिर्वृतं प्रकाशयति । एवं तपस्विनमतपस्विनम्, अतपस्विनं तपस्विनं कथयतीत्यादि । एवमादिशब्दात् क्षभादिविषयेऽपि भावा ज्ञातव्याः ४, एवं यः कश्चिद् भिक्षुश्चतुर्विधेन विपर्यासेन एतादृशेन अन्येन वा केनापि विपर्यासेन आत्मानं परं वा विपर्यासयति विपर्यासयन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ६९ ॥
सूत्रम् — जे भिक्खू मुहवण्णं करेइ करेंतें वा साइज्जइ ॥सू० ७० ॥
छाया -यो भिक्षुर्मुखवणं करोति कुर्वन्तं वा स्वदते ॥ सू० ७० ॥