SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० ११ स. १-७ आयसादिपाणां करण धरण-परिभोगादिनि० २६१ वा 'रुप्पपायाणि वा' रूप्यपात्राणि वा, तत्र रूप्यं रजतं तस्य पात्राणि वा 'सुवण्णपायाणि वा' सुवर्णपात्राणि वा 'जायख्वपायाणि वा' जातरूपपात्राणि वा, तत्र जातरूपं सुवर्णविशेषः, तस्य पात्राणि वा, 'मणिपायाणि वा' मणिपात्राणि वा तत्र मणिः कर्केतनादिः, तस्य पात्राणि वा 'कणग पायाणि वा' कनकपात्राणि वा सुवर्णविशेपस्यपात्राणि वा 'दंतपायाणि वा' दन्तपात्राणि वा हस्तिदन्तादिकस्य पात्राणि वा 'सिंगपायाणि वा' शृङ्गपात्राणि वा, तत्र शृङ्गं खझिमृगमहिषादीनां तस्य पात्राणि वा 'चम्मपायाणि वा' चर्मपात्राणि वा, तत्र चर्म मृगादीनां, तस्य पात्राणि वा 'चेलपायाणि वा' चैलपात्राणि वा तत्र चैल कार्पासिकं घनीभूतवस्त्रं यस्मिन् जलादिवस्तु स्थापयितुं शक्यते, तस्य पात्राणि वा 'अंकपायाणि वा' अङ्कपात्राणि वा स्फटिकपात्राणि वा 'संखपायाणि वा' शड्वपात्राणि वा तत्र शङ्खो लोकप्रसिद्धः तस्य पात्राणि वा 'वइरपायाणि वा' वज्रपात्राणि वा. तत्र वज्र -हीरकं तस्य पात्राणि उपलक्षणात् साम्प्रतकालीनप्लाष्टिकादिपात्राणि, एतेषु लोहादिषु मध्यात् अन्यतमस्यापि पात्राणि यः 'करेई' करोति स्वयमेव निर्माति सपादयति 'करत वा साइजई' एतादृशपात्राणि कुर्वन्तं श्रमणान्तर स्वदते अनुमोदते । यो हि श्रमणः श्रमणी वा लौहादीनां पात्राणि स्वयमेव करोति कुर्वन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० १॥ सूत्रम्-एवं धरेइ धरेतं वा साइज्जइ ॥सू० २॥ छाया-एवं धरति धरन्तं वा स्वदते ॥सू० २॥ चूर्णी-एवं पूर्वोक्तप्रकारेण अयः प्रभृतिक पात्राणि यो 'धरेइ' धरति-अन्यकृतानि पार्श्वे स्थापयति 'धरेंतं वा साइज्जइ' धरन्तं वा पार्श्वे स्थापयन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० २॥ सूत्रम्-एवं परिभुजइ परिभुजंतं वा साइज्जइ ॥सू० ३॥ छाया-एवं परिभुङ्क्ते परिभुञ्जान वा स्वदते ॥सू० ३॥ चूर्णी-एवं पूर्वोक्तलोहादिपात्राणि परिभुङ्क्ते लोहादिपात्राणामुपभोगं करोति परिभुजाानं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।।सू० ३॥ सूत्रम्-जे भिक्खू अयबंधाणि वा जाव वइबंधाणिवा करेइ करें। वा साइज्जइ ॥सू० ४॥ छाया-यो भिक्षुरयोवन्धानि वा यावत् वजबन्धानि पा करोति कुर्वन्तं वा स्वदते ॥सू० ॥ चूर्णी-'जे भिक्खू' इत्यादि । अयोबन्धनादारभ्य यावत् वज्रबन्धनानि दवरकरूपाणि करोति कुर्वन्तं वा स्वदते अनुमोदते उपलक्षणात साम्प्रतकालीनप्लाष्टिकादिवन्धननिषेधोऽपि विज्ञेयः ॥सू० ४॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy