________________
॥ एकादशादेशकः ॥ व्याख्यातो दशमोद्देशकः, अथैकादशो व्याख्यायते, तत्र-दशमोद्देशकान्तिमसूत्रस्य एकादशोद्देशकस्यादिसूत्रेण सह कः सम्बन्ध इति चेदत्राह भाष्यकार:भाष्यम्-दसमांतिममुते य, निसिद्धो चीवरग्गहो ।
__ एगारसाइसुत्ते उ, पायग्गाहो पवुन्चइ ॥१॥ छाया-दशमान्तिमसूत्रो च, निपिद्ध श्चीवरग्रहः ।
एकादशादिसूठो तु पात्रग्रहः प्रोच्यते ॥१॥ अवचूरिः-दशमान्तिमसूत्रे तु दशमोदेशकस्यान्तिम चरमे सूत्रे चीवरयाचनं चीवरस्य वस्त्रस्य याचनं ग्रहणं च निपिद्धम्, अत्र तु एकादशोदेशकस्यादिसुत्रे प्रथममूत्रे पात्रस्य लोहादिपात्रस्य निषेधः प्रोच्यते-अयमेव सम्बन्धः दशमैकादशोद्देशकसूत्रयोर्भवति, तदनेन सम्बन्धेनायातस्यास्य एकादशोद्देशकीयप्रथमसूत्रस्य व्याख्यानं प्रस्तूयते-'जे भिक्खू' इत्यादि ।
सूत्रम्-जे भिक्खू अयपायाणि वा तंवपायाणि वा तउयपायाणि वा सीसगपायाणि वा कंसपायाणि वा रुप्पपायाणि वा सुवण्णपायाणि वा जायख्वपायाणि वा मणिपायाणि वा कणगपायाणि वा दंतपायाणि वा सिंगपायाणि वा चम्मपायाणि वा चेलपायाणि वा अंकपायाणि वा संखपायाणि वा वइरपायाणि वा करेइ करेतं वा साइज्जइ ॥सू० १॥
छाया—यो भिक्षुरय पात्राणि वा ताम्रपात्राणि वा अपुकपात्राणि वा शीशकपात्राणि वा कांस्यपात्राणि वा रूप्यपात्राणि वा सुवर्णपात्राणि चा जातरूपपात्राणि वा मणिपात्राणि वा कनकपात्राणि चा दन्तपात्राणि वा शृगपात्राणि वा चर्मपात्राणि वा गेलपात्राणि वा अंकपात्राणि वा शङ्खपात्राणि चा वजपात्राणि वा करोति कुर्वन्तं वा स्वदते । सू० १॥
चूर्णी-'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अयपायाणि वा' अयःपात्राणि, तत्र अयो-लोहः तस्य पात्राणि जलानयनाय भिक्षानयनाय वा एतादृशानि अयःपात्राणि करोति इत्यग्रिमेण क्रियापदेनान्वयः 'तंवपायाणि वा' ताम्रपात्राणि वा तत्र तानं प्रसिद्ध, तस्य पात्राणि वा 'तउयपायात्राणि वा' त्रपुकपात्राणि वा तत्र त्रपुः 'गंगा कलैः' इति लोकप्रसिद्धः तस्य पात्राणि वा 'सीसगपायाणि वा' शीशकपात्राणि वा शीशकं 'सीसा' इति प्रसिद्धं, तस्य पात्राणि 'कंसपायाणि वा' कांस्यपात्राणि वा, तत्र कांस्यं 'कांशा' इति लोकप्रसिद्धं, तस्य पात्राणि