________________
चूर्णिभाष्यावचूरि: उ. १० सू० ४३-४५
पर्युषणाव्यतिक्रमनिषेधः २५५
1
छाया- -यो भिक्षुरपर्युषणायां पर्युषति पयुषन्तं वा स्वदते । सू० ४३ ॥ | चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा ‘अपज्जोसवणाए’ अपर्युषणायाम् अपर्युषणाकाले, अत्र 'ऊष' उप' इति धातुद्वयम्, तेन 'पर्यूषणा' 'पर्युषणा' इति द्वयमपि रूपं सिद्ध्यातीति पर्युषणस्य सांवत्सरिकस्य यः कालः प्रतिनियतः चातुर्मासीप्रतिक्रमणानन्तरं पञ्चाशत्तमे दिवसे संवत्सरी प्रतिक्रमणं कर्त्तव्यम्, इत्येवंरूपः कालः, तस्य कालस्याप्राप्तावेव तदतिक्रमणे वा 'पज्जोसवेइ' पर्युपति - पर्युषणां करोति कारयति वा सांवत्स - रिकम् प्रतिक्रमणं चतुर्थभक्तक्षमापनादिकं च करोति, तथा 'पज्जोसवेंतं वा साइज्जइ' पर्युषन्तं वा अप्राप्तेऽतिक्रान्ते वा पर्युषणाकाले सावत्सरिकप्रतिक्रमणं पर्युषणामूलकतपःप्रभृतिकं वा कुर्वन्तं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तस्याज्ञाभङ्गादिका दोषा भवन्तीति ॥ सू० ४३ ॥
1
सूत्रम् - जे भिक्खू पज्जोसवणार ण पज्जोसवेइ ण पज्जोसवेंतं वा साइज्जइ ॥ सू० ४४ ॥
छाया -यो भिक्षु. पर्युषणायां न पर्युपति, न पर्युपन्तं वा स्वदते । सू० ४४ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पज्जोसवणाए' पर्युपणायां पर्युपणकाले चातुर्मासिकप्रतिक्रमणानन्तरं पश्चाशत्तम दिवसरूपे प्राप्तेऽपि 'ण पज्जोसवेइ' न पर्युपति शास्त्रोक्तप्रकारेण पर्युषणां न करोति, न वा कारयति तथा 'ण पज्जोसवेंतं वा साइज्जइ' न पर्युषन्तं वा स्वदते सांवत्सरिककाले प्राप्तेऽपि सांवत्सरिकप्रति - क्रमणं यो न करोति न कारयति वा तमनुमोदते यः स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति तस्मात् पर्युषणकाले पर्युषणकृत्यं न परित्यजेत् ।
अत्राह भाष्यकारः---
भाष्यम् – पत्ते पज्जोसणाकाले, जो न पज्जोसवे मुणी | अपत्ते वा अईए वा, कुणइ दोसभा भवे ||
छाया - प्राप्ते पर्युषणाकाले, यो न पर्युषेद् मुनिः ।
अप्राप्ते वा अतीते वा, कुरुते दोषभाग भवेत् ॥
अवचूरिः —यः श्रमणः श्रमणी वा पर्युषणाकाले प्राप्ते समुपस्थित्ते संवत्सरीकाले पर्युषणां सावत्सरिककृत्यं क्षमापनादिकं न कुरुते सांवत्सरीसमये तन्निमित्तकधर्मध्यानादिकं न करोति तथा पर्युषणाकाले अप्राप्ते अनागते अतीते व्यतीते वा चातुर्मासिकप्रतिक्रमणानन्तरं पञ्चाशत्तमदिवसरूपे समये यः सांवत्सरिकप्रयुक्तधर्मध्यानादिकं कुरुते स दोषभाग् भवेत्, तस्य गुरुचातुर्मासिकं प्रायश्चित्तं भवति, तथा तस्य आज्ञाभङ्गानवस्थामिध्यात्वसंयम विराधनात्म