________________
धूणभाष्यावधिः उ० १० सू० ४१-४२. प्रथमप्राकालवर्षाकालविहारनिषेधः २५३ न कदापि मनोमालिन्यं करोति यः सः ॥२॥ तथा-उत्सर्गापवादवित्-यथासमयमुत्सर्गमार्गस्यापवादमार्गस्य च सम्यग् ज्ञाता, ग्लानकायें कदा कस्मिन् विषये उत्सर्गमार्गः, कदा कस्मिन् विषये चापवादमार्गः स्वीकरणीयः, इत्यस्य सम्यक्तया ज्ञानवान् , श्रद्धकः-ग्लाने श्रद्धाशीलः, एतादृशः पूर्वोक्तगुणविशिष्टो यो भवति तम् आचार्यः आतुरवैयावृत्त्ये ग्लानसेवायां नियोजयेत् स्थापयेत् ॥३॥ इति भाष्यगाथात्रयार्थः ।। सू० ४०॥
सूत्रम्-जे भिक्खू पढमपाउसंसि गामाणुगामं दूइज्जइ दूइज्जतं वा साइज्जइ ॥ सू० ४१॥
छाया-यो भिक्षुः प्रथमप्रावृषि ग्रामानुग्राम द्रवति द्रवन्तं वा स्वदते ॥सू० १४॥
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पहमपाउसंसि' प्रथमप्रावृषि, तत्र प्रावृट्शब्देन आषाढ-श्रावणमासौ गृह्येते. तत्र तयो. सियोईयोर्मध्ये प्रथमः प्रावृट्काल आषाढमासः, तस्मिन् प्रथमे प्रावृट्काले आषाढमासे अयवा पण्णामपि ऋतूनां मध्ये प्रथमः प्रावृट्रकालो भवति तेन कारणेन प्रथमः प्रावृट्कालः कथ्यते, तत्र प्रथमप्रावृट्काले यः श्रमणः 'गामाणुगामं दूइज्जई' प्रामानुग्रामं द्रवति एकस्मात् ग्रामात् प्रामान्तरं प्रति गच्छति तथा 'दूइज्जत वा साइज्जइ' ग्रामानुग्रामं द्रवन्तं गच्छन्तं यथा शिशिरहेमन्तादिमध्ये प्रामानुग्राम प्रति द्रवति तथा प्रथमप्रावृट्काले यः द्रवति तमनुमोदते स प्रायश्चित्तभागी भवति ॥सू० ४१॥
सूत्रम्-जे भिक्खू वासावासं पज्जोसवियंसि गामाणुगामं दूइज्जइ दूइज्जंतं वा साइज्जइ ॥ सू० ४२॥
छाया-यो भिक्षुर्वावास पर्युपिते ग्रामानुग्रामं द्रवति द्रवन्तं वा स्वदते ॥सू०४२॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वासावासं पज्जोसवियंसि' वर्षावासं पर्युषिते सति वर्षावासनिवासकरणानन्तरं आषाढशुल्कपौर्णमास्याः प्रतिक्रमणे कृते सतीत्यर्थः 'गामाणुगामं दूइज्जई' प्रामानुग्रामम् एकस्मात् प्रामात् प्रामान्तरं प्रति द्रवति गच्छति विहारं करोतीत्यर्थः तथा 'दइज्जतं वा साइज्जई' द्रवन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति संयमात्मविराधनासद्भावात् । विशेषजिज्ञासुजनार्थ भाष्यकारोऽतिदेशमाहभाष्यम्-आयारस्स य वीए, सुयखंधे तस्स तइय अज्झयणे ।
तस्सवि पढमुद्दे से, तत्थ वि पुण आदिमुत्ते य ॥१॥ इरियाए जं भणियं, दसमुद्देसं मि तं निरवसेसं । वासावासविहारे, एत्थ निसीहे मुणेयव्वं ॥२॥