________________
- www
૨૧૨
निशीथसूत्रे ग्लानस्य वैयावृत्त्यकरणे कीदृशः साधुनियोक्तव्यः ? एवंविधे प्रश्ने भाष्यकारः प्राहभाष्यम्-खंतिखमो मद्दविओ, असढोऽचवलो य लद्धिसंपण्णो ।
दक्खो अनिद्द मुभरो, हिययग्गाही अपरितंतो ॥१॥ मुत्तत्थअपडिवद्धो, निज्जरपेही जिइंदिओ दंतो। कोऊहलविप्पमुक्को, अणाणुकारी सउच्छाहो ॥२॥ उस्सग्गववायविऊ, सदहगो एरिसो य जो होइ ।
आउरवेयावच्चे, निउंजए तं च आयरिओ ॥३॥ छाया-क्षान्तिक्षमः मार्दविकः अशठः अचपलश्च लब्धिसंपन्नः ।
दक्षः अनिद्रः सुभरः हृदयग्राही च अपरितान्तः॥१॥ सूत्रार्थाप्रतिवद्धः निर्जराप्रेक्षी जितेन्द्रियः दान्तः । कौतूहलविप्रमुक्तः अननुकारी सोत्साहः । उत्सर्गापवादवित् श्रद्धकः ईदशश्च यो भवति ।
आतुरवैयावृत्ये नियोजयेत् तं च आचार्यः ॥३॥ अवचूरिः - 'खंतिखमो' क्षान्तिक्षमः क्षान्त्या क्षमया क्षमते सहते न तु असमर्थतया यः सः क्षान्तिक्षमः, एतादृशं क्षान्तिक्षमं श्रमण ग्लानस्य वैयावृत्ये नियोजयेत् इत्यग्रेणसम्बन्धः, तथा मादेविकः, तत्र माननिग्रहकारी मार्दविकः मृदुतागुणसम्पन्नः, तथा अशठः, तत्र मायाशीलः शठः न शठोऽशठः मायानिग्रहकारी सरलचित्त इत्यर्थः, अचपल:-चाञ्चल्यरहितः, तथा लब्धिसम्पन्न:-आहारादिगवेषणे विलक्षणशक्तिसंपन्नः, लन्धिः-लभ्यवस्तुनः परिश्रममन्तरेण लाभः, तादृशशक्तिसम्पन्न इत्यर्थः, तथा दक्षः-लानस्य कार्यकरणे चतुरः, तथा अनिद्रः-आलस्यरहितः, मुभर:-सु-सुष्टुतया भरति पोषयति अल्पेन बहुकेन वा समयोचितेन आहारादिना ग्लानस्य पोषणं करोति यः स तथा, अथवा आत्मना अन्यद्वारा वा ग्लानस्य कार्यसाधकः, तथा हृदयग्राही-तत्र यः ग्लानस्य चित्तरञ्जकः, तेन सह हृदयंगमवा नुमोदनपूर्वकमपथ्यनिवारको यः स हृदयग्राही, अपरितान्त:-सुचिरकालमपि ग्लानस्य वैयावृत्त्यं कुर्वन् उद्विग्नो न भवति यः स तथा ॥१॥ तथा सूत्रार्थाऽमतिवद्धः-सूत्रार्थे प्रतिबन्धरहितः सम्यक्सूत्रार्थज्ञाता गृहीतसूत्रार्थ इत्यर्थः, तथा निर्जराप्रेक्षी-कर्मनिर्जरार्थी निर्जरार्थमेव वैयावृत्त्यकारी, जितेन्द्रियःयो हि इष्टानिष्टविषये रागद्वेपं न प्राप्नोति स जितेन्द्रियः, दान्त:-इच्छाया मनसश्च दमनकर्ता, कौतूहलविषमुक्तः- यस्मिन् कस्मिन् विषये कौतुकवर्जितः, अननुकारी-अनु-पश्चात् न कारयतीति अननुकारी 'अहमस्य वैयावृत्त्यं करोमि अतोऽयमपि अनु-पश्चात् मम वैयावृत्य करिण्यती'-ति अनुकरणवर्जितः कृतप्रतिकृतिवाञ्छारहित इत्यर्थः, तथा सोत्साहः-वैयावृत्ये उत्साहशीलः,