________________
पूर्णिभाष्यावचूरिः उ०१० सू०४० ग्लानोचितवस्त्वलाभेपश्चात्तापाऽकरणनिषेधः २५१ छाया- वैयावृत्ये ग्लानस्य व्यापृतः श्रमणो यदि ।
द्रव्यजातमलभमानो गुरवे तं निवेदयेत् ॥ अवचूरिः- श्रमणो भिक्षुः ग्लानस्य रोगातकादिना पीड्यमानदेहस्य वैयावृत्त्ये सेवाकमणि नियुक्तः ग्लानार्थ द्रव्यादिजातम् प्रासुकमौषधं भक्तं पानं वा अन्वेषयन् तं यदि न लभते तदा प्रत्यागत्य 'ग्लानाथें प्रासुकमौषवादिकं नाहं लब्धवा'-नित्येवंप्रकारेण गुरवे आचार्याय गच्छनायकाय ग्लानाय अन्यस्मै साधवे वा अवश्यमेव कथयेत् । यदि कदाचित् स पुनरागतो न कथयति तदा तस्य प्रायश्चित्तं भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति । तत्र द्रव्यजातपदेन प्रासुकं भकपानादिकम् , तथा रोगिणे यादृशमुपयुक्तमौषधादिकं भवति तादृशमौषधादिकम् , पथ्यं भोजनम् , संस्तारकवस्त्रादिकं च गृह्यते । यदि प्रत्यागतः साधुन कथयति तत्रेमे दोपा भवन्ति तद्यथा-अमुकेन औषधेन तस्य ग्लानस्य रोगनिवृत्तिर्भविष्यति परन्तु तेन नानीतं न वा कथितम् , यदि कथितं भवेत् तदा अन्यः कोऽपि श्रमणः तदर्थ प्रयत्नं कुर्यात् । तदकरणात् ग्लानस्यागाढपरितापो भवेत् , महदुःखं जायेत, ग्लानस्य मूर्छापि भवेत् , एवं कदाचित् प्राणवियोगोऽपि संभवेत् , यस्मादेते दोपाः संभवन्ति तस्मात् कारणात् ग्लानस्य वैयावृत्त्ये नियुक्तो भिक्षुर्यदि ग्लानार्थमोपधादिकं न प्राप्नोति तदा अवश्यमेवागत्य गुरवे श्रमणान्तराय वा निवेदनीयं, नतु तत्रालस्यं कर्तव्यमिति ॥सू० ३९॥
सूत्रम्-जे भिक्खू गिलाणवेयावच्चे अभुट्ठिए सएण लाभेण असंथरमाणे जो तस्स न पडितप्पइन पडितप्पंत वा साइज्जइ ॥ सू०४०॥
छाया-यो भिक्षुग्लानवैयावृत्ये अभ्युत्थितः स्वकेन लाभेनासंस्तरन् या तस्य न परितप्यते न परितप्यमानं वा स्वदते ॥सू० ४०॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गिलाणवेयावच्चे' ग्लानवैयावृत्ये, तत्र ग्लानस्य रोगातकादिना पीडितस्य श्रमणस्य वैयावृत्ये सेवाकर्मणि 'अभुटिए' अभ्युस्थितः समुद्यतः, तेन वन्दनादिकार्यवशाद् बेलातिक्रमेऽल्पं लब्धं भवेत् , तादृशेन 'सएण लाभेण' स्वकेन स्वकृतोधमजनितेन लाभेन 'असंथरमाणे' असंस्तरन पर्याप्ततामलभमानः एतावताऽल्पेन वस्तुजातेन प्राप्तेन ग्लानस्य किं भविष्यतीत्येवं पर्याप्तमप्राप्तवन 'जो तस्स न पडितप्पई' यस्तस्य तद्विषयस्य ग्लानविषयस्य वा न परितप्यते उपसर्गबलादत्र पश्चात्तापार्थों गृह्यते, पश्चात्तापं न करोति 'ण पडितप्पंतं वा साइजई' न परितप्यमानं वा पश्चात्तापमकुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।