________________
२५०
निशीथसूत्र एवं तत्र ग्लानसमीपं गत्वा तत्रत्यो य आचार्यस्तं प्रति वदेत्-हे भदन्त ! आज्ञापय किमहं करोमि वैयावृत्ये स्वात्मानं नियोजयामि अहमनेनैवाभिप्रायेणागतोऽस्मि यद् ग्लानं परिचरिष्यामि, ग्लानस्य वैयावृत्ये ये संलग्नाः साधवस्तान् भक्तपानादिभियावृत्यं करिष्यामीति । एवं कुर्वतः श्रमणस्य तीर्थकराज्ञाया आराधना कृता भवति । एवं कथिते यदि आचार्यः कथयति-यत् अमुकं कार्य कुरु, नदा तत्रत्यं सर्व कार्यमाचार्याज्ञया कर्तव्यम् । औषधभक्तपानादिना वैयावृत्त्यं कर्तव्यं यावत् स साधुन रुजो भवेत् । तस्मात् साधुना अवश्यमेव ग्लानस्य समीपे गन्तव्यम् । यस्तु श्रमणो ग्लानं श्रुत्वा तत्र झटिति न गच्छति उन्मार्गेण प्रतिपथेन वा गच्छति स तीर्थकरस्याज्ञाया विराधको भवन् प्रायश्चित्तभागी भवतीति ॥३८॥
सूत्रम्-जे भिक्खू गिलाणवेयावच्चे अब्भुट्ठिए गिलाणपाउग्गे दव्वजाए अलभमाणे जो तं ण पडियाइक्खइ ण पडियाइक्वंतं वा साइज्जइ ॥ सू० ३९॥
छाया-यो भिक्षुर्लानवैयावृत्ये अभ्युत्थिनो ग्लानप्रायोग्यं द्रव्यजातमलभानो यस्त न प्रत्याचक्षते न प्रत्याचक्षाणं वा स्वदते ॥सू० ३९॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'गिलाणवेयावच्चे' ग्लानवैयावृत्ये, तत्र रोगानकादिना ग्लानस्य साधोः वैयावृत्यं औषधभैपज्यानपानादिना सेवाकरणे 'अमुहिए' अभ्युत्थितः समुद्यतः सेवाकरणार्थ कृतप्रयत्नो नातो यदि "गिलाणपाउग्गे' ग्लानप्रायोग्यम् ग्लानस्य प्रायोग्यमनुकूलं प्रासुकमाहारमौषधादिकं वा 'दव्यजाएं' द्रव्यजातम्-तदनुकूलवस्तुविशेषम् 'अलममाणे' अलभमानः-अप्राप्नुवन् 'जो तं ण पडियाइक्खई' यो ग्लानसेवाकारकः साधुः ग्लानसाध्वर्थमौषधमशनादिकं च आनेतुं कृतप्रयत्नोऽपि तादृशंद्रव्यजातम् अन्तरायबलादलभमानो यदि श्रमणान्तरं प्रति आचार्य प्रति वा रोगिण प्रति वा न प्रत्याचक्षते न कथयति तथा 'ण पडियाइक्खंत वा साइज्जइ' न प्रत्याचक्षाणं वा स्वदते अनुमोदते । यो हि भिक्षुर्लानस्य श्रमणस्य वैयावृत्त्ये नियुक्तो ग्लानस्य प्रायोग्य औषधभैषज्यान्नपानादिकमानेतु प्रयत्नं करोति तत्र यदि तादृशं प्रासुकमौषधांदिकं तेन न लब्धम् तदा आगत्याचार्य प्रति अन्यस्मै साघवे वा ग्लानाय वा कथयितव्यं यत् औपधादिकं लाभान्तरायकर्मणा मया न लब्धमिति । एवं न कथयति स प्रायश्चित्तभागी भर्वति, तथा तस्याज्ञाभङ्गादिका दोपाश्चापि भवन्तीति ।
अत्राह भाष्यकार:' भाष्यम्-वेयावच्चे गिलाणस्स, चावडो समणो जइ ।
'दबजायं अलभतो, गुरुणो तं निवेयए ।