________________
चूर्णिभाष्यावद्रिः उ.१० २.०-३८-३९
ग्लानवैयावृत्याकरणनिषेधः २५९ भवति । यतो रोगावस्थायामुपसर्गावस्थायां चक्षुरादीन्द्रियविकलतावस्थायां ग्लानस्य साधोविनयवैयावृत्त्यादिना संरक्षणकरणमावश्यकम् , अन्यथा रुग्णः साधुर्मनसि दुःखितः सन् संयमात् परिभ्रष्टो भवेत् , तथा असंरक्षितावस्थायां तं दृष्ट्वा लोकाः शासनस्य निन्दा करिष्यन्ति तेन प्रवचनस्य लघुता स्यात् , तथा अन्यवैराग्यवतां गृहस्थानां तस्य ग्लानस्य तादृशी दुरवस्थां दृष्ट्वा मनसि वैराग्यमपि हीयेत, ते विचारयिष्यन्ति यत् किमनया प्रव्रज्यया यत्तत्रैतादृशं दुःखं भवति, न कोऽपि वैयावृत्त्यं करोतीति विनयमार्गोऽपि लुप्येत तस्मात् कारणात् श्रमणः ग्लानं साधु श्रुत्वा ज्ञात्वा कथमपि नोन्मार्ग न वा प्रतिपथं गच्छेत् , न वा.प्रतिपथं गच्छन्तमनुमोदयेत् किन्तु ग्लानस्य वैयावृत्यमवश्यमेव कर्तव्यमिति । अत्राह भाष्यकार:भाष्यम्-सोच्चा गिलाणं उम्मग्गं, गच्छे पडिपहं जइ ।
जो समणो पावई सो, आणाभंगाइयं तया ॥ छाया-श्रुत्वा ग्लानमुन्मार्ग गच्छेत् प्रतिपथं यदि ।
यः श्रमणः प्रामोति स आज्ञाभङ्गादिकं तदा ॥ ___ अवचूरिः-यस्तु श्रमणो भिक्षुः ग्लानं रोगातङ्केन प्रक्षीयमाणदेहम् श्रमणं श्रुत्वा उन्मार्ग प्रतिपथं वा गच्छेत् , यत्र ग्लानः साधुर्विद्यते तत्र न गच्छति किन्तु उन्मार्गेण विपरीतमार्गेण याति, तत्राटव्यादिमार्गेण गमनम् उन्मार्गगमनम् , विपरीतमार्गेण गमनं प्रतिपथगमनम् , एवं गमनं करोति, यथा येन पथा आगतः तेनैव पथा प्रतिनिवर्तते तस्माद्वा मार्गात् मार्गान्तरेण संक्रामति, एवं कुर्वन् श्रमणः प्रायश्चित्तभागी भवतीति । कथं पुनरेवं स उन्मार्गादिना गच्छति ग्लानसमीपं नागच्छति ? तत्रोच्यते-लान साधु श्रुत्वा स मनसि एवं विचारयति-यद्यहं ग्लानेन दृष्टः तदा यदि ग्लानस्य वैयावृत्यं न करिष्यामि तदा अधार्मिकोऽयमिति लोको मां गणयिष्यति, अथवा यदि तस्य ग्लानस्य वैयावृत्यं करिष्यामि तदा तत्रैव व्यापृतस्य मे सर्व स्वकीय कार्य विनष्टं भविष्यतीत्यादि कारणवशात्स तत्र न गच्छतीति । तथा ग्लानो यत् दुःखं प्राप्नोति तन्निष्पन्नमपि प्रायश्चित्तं तस्य भवति । तस्मात् श्रुत्वा ग्लानं मार्गे वा गच्छता ग्रामं वा प्रविशता भिक्षार्थ वा अटता साधुना तत्क्षणादेव त्वरितं ग्लानसमीपे गन्तव्यमिति । यथा भ्रमरः कुसुमिताम्रवणं दृष्ट्वा बनान्तरं विहाय तं प्रति शीघ्र गच्छति, एवं साधुना धर्मवृक्षाश्रयणाथै वैयावृत्यकरणाय तत्रावश्यं गन्तव्यमेव, एवं करणेन साधर्मिकवात्सल्य कृतं भवेत् , तथा स्वस्य कर्मनिर्जरा च संपधेत तस्मात् यो ग्लानसमीपे तदुपचारार्थ गच्छति स शुद्धः, यस्तु न गच्छति तस्य प्रायश्चित्तं भवति । तत्रायं पृच्छाक्रमः, तथाहि -यत्र ग्रामे उपाश्रये वा ग्लानस्तिष्ठति तत्र गत्वा प्रष्टव्यम्-कोऽत्र ग्लानमुपचरति, अथवा अस्य किमुपचरितमिति प्रष्टव्यम् । साधूनामियं मर्यादा यत् ग्लानस्यानुवर्तनं कर्तव्यमिति,