________________
निशीथस्त्र २४८ त्यरूपं वा न करोति, तथा गवेषणमकुर्वन्तं वा श्रमणमनुमोदते स प्रायश्चित्तभागी भवति । तथा तस्याज्ञामङ्गादिका दोषाश्चापि भवन्ति अतो ग्लानं श्रमणमवश्यमेव गवेपयेत् न तस्योपेक्षा कर्तव्येति भावः ।
अत्राह भाष्यकार:भाष्यम्-सगामे परगामे वा, सोच्चा जाणिय संठियं ।
गिलाणं नो गवेसेइ, आणाभंगाइ पावइ ॥ छाया-स्वग्रामे परग्रामे वा, श्रुत्वा शात्वा संस्थितम् ।
ग्लानं नो गवेषयति, आशाभङ्गादि प्रामोति ॥ अवचूरि:-यः श्रमणः स्वग्रामे- स्ववसतौ अन्यवप्सतौ वा परग्रामे-यत्र स्वयं स्थितस्ततोऽन्यग्रामे या संस्थितं ग्लानम् समानसामाचारीकं साधु श्रुत्वा-अमुकत्र साधुः रोगातकेन दुःखी जात इति लोकेभ्यः श्रुत्वा स्वयमेव ज्ञात्वा वा तं यदि श्रमणः श्रमणी वा नो गवेपयति तस्य रोगातकादिस्थितेजिज्ञासां शुश्रूषां च न करोति स श्रमण आज्ञाभङ्गादिकान, दोषान् प्राप्नोति । यो हि श्रमणः स्वग्रामे स्ववसतौ परवसतौ वा परग्रामे वा ग्लानं श्रमणं न गवेपयति न गवेषयन्तं वा अनुमोदते स प्रायश्चिभागी भवति । यतो हि रोगातकादिना दुःखितो ग्लान आसन्नस्थेन साधुना अगवेपितो मनसि परितापं प्राप्नोति तज्जन्यप्रायश्चित्तस्य स भागी भवतीति भावः ।। सू० ३७॥
सूत्रम्--जे भिक्खू गिलाणं सोच्चा णच्चा उम्मग्गं वा पडिपहं वा गच्छइ गच्छंतं वा साइज्जइ ॥ सू०३८॥
छाया यो भिक्षुग्लानं श्रुत्वा धात्वा उन्मार्ग प्रतिपथं वा गच्छति गच्छन्तं वा स्वदते चा ॥सू० ३८॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गिलाणं' ग्लानं रोगातकाक्रान्तं 'सोच्चा णच्चा' श्रुत्वा अन्यसकाशात् ज्ञात्वा स्वयमेव वा यदि 'उम्मग्गं वा' उन्मार्ग वा-लानस्थानमार्गादन्यं मार्ग 'पडिपहं वा' प्रतिपथं वा गच्छति यत्र मार्गे ग्लानः स्थितस्ततो विपरीतं पन्थानं यथा स यदि पूर्वदिशायां स्थितो भवेत्तदा स्वयं पश्चिमदिशायां गच्छति रोगातकादिना ग्लायमानो यत्र वर्तते तत्र यदि गमिष्यामि तदा तस्य सेवादिकमवश्यकर्तव्यतया समापतेदितिबुद्धया यत्र स विद्यते तस्मिन् मार्गे न गच्छति किन्तु तत्प्रतिकूलमार्गेण गमनं करोति येन ग्लानस्य वैयावृत्त्यं न कर्तव्यं स्यात् , तथा 'गच्छंतं वा साइज्जइ' उन्मार्ग प्रतिपथं वा गच्छन्तं श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी