________________
wwwwwwwwwwwr mamwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
पूर्णिभाष्याघचूरिः उ० १० सू० ३६-३८ मुखागतोगारपुनर्मिलन-ग्लानागवेषणादिनि० २४७
छाया- यो भिक्षुः रात्रौ वा विकाले वा सपानः सभोजन उद्गार आगच्छेत् तं विविचन् वा विशोधयन् वा नातिकामति, तम् उद्गीर्य प्रत्यवगिलन् रात्रिभोजनप्रतिसेवनाप्राप्तः यस्तं प्रत्ववगिलति प्रत्यवगिलन्त वा स्वदते ॥ सू०३६ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'राओ वा' रात्रौ वा 'पियाले वा' विकाले वा सध्यासमये सूर्योदयात्प्राग वा तस्य श्रमणस्य 'सपाणे' सपान:-पानं जलं तेन सहितः सपानः 'सभोयणे वा' सभोजनो वा यद् भोजनं भुक्तमोदनादिकं तेन सहितः सभोजनः, उपलक्षणाद् उभयप्रकारो वा 'उग्गाले' उद्गारः 'डकार' इति लोकप्रसिद्धः स आगच्छेत् मुखमध्ये आगच्छेत् 'तं विगिंचमाणे' तं सजलं सभोजनमुद्गारम् विविचन् परित्यजन् मुखाद्-बहिर्निप्कासयन् 'विसोहेमाणे विशोधयन् मुखस्य स्वच्छता वस्त्रादिना संपादयन् श्रमणः श्रमणी वा 'नाइक्कामइ' नातिक्रामति नोल्लंधयति तीर्थकरस्याज्ञाम् 'रात्रौ न भोक्तव्यमित्याकारक यदस्ति तस्यातिक्रमणं न करोति सपानसभोजनोद्गारस्य मुखात निष्काशनात् मुखस्य विशुद्धिकरणाच्चेत्यर्थः 'त' तम् अथ यदि स श्रमणो रात्रौ विकाले वा समागतं सपानं सभोजनमुद्गारम् 'उग्गिलित्ता पच्चोगिलमाणे' उद्गीर्य्य प्रत्यवगिलन् यदि तं सपानं सभोजनमुद्गारं मुखाद्वहिर्न निःसारयति किन्तु पुनः तदुद्गारस्थं जलं भोजनं च गलादधः कुर्वन् स 'राइभोयणपडिसेवणपत्ते' रात्रिभोजनप्रतिसेवनाप्राप्तः रात्रिभोजनजनितदोषयुक्तो भवति अतो यदि 'जो तं पञ्चोगिलइ पचोगिलंतं वा साइज्जइ' यः कोऽपि श्रमणः श्रमणी वा तदुद्गारस्थं जलं भोजनं प्रत्यवगिलति गलादधः करोति तथा प्रत्यवगिलन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवतीति ॥ स् । ३६॥
सूत्रम्-जे भिक्खू गिलाणं सोच्चा णच्चा ण गवेसइ ण गवेसंतं वा साइज्जइ ।। सू०३७॥
छाया—यो भिक्षुः ग्लानं श्रुत्वा ज्ञात्वा न गवेषयति न गवेषयन्त वा स्वदते ॥सू.३७॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' य, कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गिलाणं ग्लानम् तत्र यस्य रोगेण आतङ्केन वा शरीरं क्षीणं भवति शरीरस्य क्षयो वा भवति स ग्लानः, तादृशं ग्लान सरोगातकम् समानसामाचारीकं स्वगच्छीयं वा श्रमणं 'सोच्चा' श्रुत्वा अन्यमुखात् 'णच्चा' ज्ञात्वा स्वयमेव वा ज्ञानविषयोकृत्य 'ण गवेसई' न गवेषयति नान्वेषयति तथा 'ण गवेसंत वा साइज्जई' न गवेषयन्तं वा स्वदते अनुमोदते । यो भिक्षुः स्वग्रामे स्वोपाश्रये परनामे परोपाश्रये वा स्वगच्छीयः परगच्छीयो वा समानसामाचारीकः अमुकः श्रमणो ग्लानो जात इति परेभ्यः श्रुत्वा स्वयमेव वा ज्ञात्वा तस्य गवेषणं तत्स्थितेर्जिज्ञासारूपं तद्वैयावृ