________________
२४६
निशीथसूत्रे एमेवाऽसंथडिओ, सो विय दुविहो भवेज्ज पुव्वंय । सो गेण्डिय असणाई, तं परिभोत्तुं समारद्धो ॥२॥ जाणिय अनुग्गमं तह, अत्यमणं चेव जइ य सूरस्स ।
भुंजइ जइ असणाई, पावेइ य आणभंगाई ॥३॥ छाया-उद्गतवृत्तिभिक्षुर्भवति च यः अनस्तमितसंकल्पः ।
संस्तृतः स द्विविधो निर्विचिकित्लश्च विचिकित्स ॥१॥ पवमेवाऽसंस्तुतः सोऽपि च द्विविधो भवेत् पूर्ववत् । स गृहीत्वाऽशनादि तत् परिभोक्तुं समारब्धः ॥२॥ ज्ञात्वाऽनुद्गमं तथा अस्तमनं चैव यदि च सूर्यस्य ।
भुङ्क्ते यदि अशनादि, प्राप्नोति च आशाभङ्गादि ॥३॥ अवचूरिः-'उग्गयवित्ती' इत्यादि । उद्गता वृत्तिः उद्गने एव सूर्य वृत्तिः वर्त्तनं प्रतिलेखनाहारविहारादीनां यस्य स तथा, एतादृशः, तथा पुनः अनस्तमितसंकल्पः सूर्यास्तापूर्वमेव साधुक्रियाकरणे एव संकल्पः मनोभावो यस्य स तथा, एतादृशो भिक्षुः, स संस्तृतासंस्तृत. भेदेन द्विविधो भवति, तत्र संस्तृत धृतिबलादिसपन्नः, असस्तृतः-धृतिबलादिरहितः । स एकैको द्विविधः-निर्विचिकित्सविचिकित्सभेदात् , तत्र निर्विचिकित्सः-सूर्यस्योद्गमे अनस्तमने च शङ्कावर्जितः, विचिकित्सः उद्गमनाऽनस्तमनविषये शङ्काशीलः, एते चत्वारोऽपि अशनादि चतुर्विधाहारं गृहीत्वा तत् परिभोक्तुं समारभन्ते तत्समये 'नोदितः सूर्यः अस्तमितो वा सूर्यः' इति निश्चये तन्न भुजानाः सन्तः आज्ञा तीर्थकराज्ञां नातिकाम्यन्ति, एते भुञ्जानास्तीर्थकराज्ञाया विराधका एव नत्वाराधका इत्यर्थ., 'सूर्य उदितः, नास्तमितो वा' इत्थादिरूपदात्रादिवचनप्रामाण्यमाश्रित्य गृहीतमशनादि भुजानानां दोपं प्रतिपादयति-'जाणिय' इत्यादि, यदि सूर्यस्यानुद्गमनमस्तमनं च ज्ञात्वा अन्यसकाशात् स्वबुद्धया वा परिज्ञाय सूर्यो नोद्गितः अस्तमितो वा इति निश्चयेन ज्ञाते सति यदि गृहीतमशनादि भुञ्जते किन्तु यदि यत् मुखे हस्ते पात्रे वा तिष्ठति तत् त्यक्त्वा मुखहस्तपात्रादिकै निरवयवं कृत्वा न परिष्ठापयन्ति तदा ते आज्ञाभङ्गादिदोषान् प्राप्नुवन्ति, इति भाष्यगाथात्रयार्थः ॥१-२-३॥ सू० ३५॥
सूत्रम्-जे भिक्खू राओ वा वियाले वा सपाणं सभोयणं उग्गालं आगच्छेज्जा तं विगिंचमाणे वा विसोहेमाणे वा णाइकमइ तं उग्गिलित्ता पच्चोगिलमाणे राइभोयणपडिसेवणपत्ते, जो तं पच्चोगिलइ पच्चागिलंतं वा साइज्जइ ॥सू० ३६॥