________________
चूणिभाष्यावचूरिःउ.१० सू० ३५ उद्गतवृत्तिकादेःसूर्यानुद्गमनादिनिश्चयेभोजननिषेधः २४५
सूत्रम्-जे भिक्खू उग्गयवित्तिए अणथमियमणसंकप्पे असंथडिए निवितिगिच्छासमावन्नेणं अप्पाणेणं असणं वा ४ जाव जो तं भुंजइ भुंजतं वा साइज्जइ ॥ सू० ३४॥
छाया--यो भिक्षुः उद्गतवृत्तिकः अनस्तमितमनःसंकल्प' असंस्तृतः निर्विचिकित्सासमापन्नेन आत्मना असणं वा ४ यावत् यस्तं भुङ्क्ते भुञ्जानं वा स्वदते ॥सू० ३४॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः श्रमणो वा उद्गतवृत्तिकादिवशेिषणविशिष्टः सः 'असंथडिए' असंस्तुनः अध्वप्रतिपन्नतपोग्लानत्वादिकारणात् धृतिबलादिरहितः 'निन्वितिगिच्छासमावन्नेणं अप्पाणेणं' निर्विचिकित्सा सूर्यत्योद्गमनानस्तमनशङ्काराहित्यं, तां समापन्नेन आत्मना सन्देहरहितेनात्मना अशनादिकं गृहीत्वा भुङ्क्ते किन्तु भोक्तं प्रवृत्ते सति यदि जानीयात् 'सूर्यो नोदितः, अस्तं वा गतः' इत्येवं निश्चये सत्यपि यो मुक्ते न तदशनादिकं परिष्ठापयति स प्रायश्चित्तभागी भवतीति भावः ।। सू० ३४॥
सूत्रम्-जे भिक्खू उग्गयवित्तिए अणथमियमणसंकप्पे असंथडिए वितिगिच्छासमावण्णेणं अप्पाणेणं असणं वा ४ जाव जो तं भुंजइ भुंजंतं वा साइज्जइ ॥सू० ३५॥
छाया-यो भिक्षु. उद्गतवृत्तिकः अनस्तमितमन संकल्प असंस्तृतः विचिकित्सासमापन्नेन आत्मना अशनं वा ४ यावत् यस्तं भुङ्क्ते भुञ्जानं वा स्वदते सू० ३५॥
चर्णी-जे भिक्खू' इत्यादि । व्याख्या पूर्ववदेव, नवरम्-'असंथडिए' असंस्तृतः मसमर्थः यः कोऽपि मुनिर्दूरक्षेत्राद् विहृत्यागमनेन श्रान्तः, मासक्षपणस्य पारणकदिवसत्वेन ग्लानत्वमापन्नः, रोगादिना ग्लानत्वमापन्नो वा भवेत्, इत्यादिकारणैर्धेतिबलवर्जितः 'वितिगिच्छासमावण्णेणं अप्पाणेणं' विचिकित्सा-सूर्यस्योदयसंभवः संप्रति अभ्रच्छन्नादिकमाश्रित्यैवं दृश्यते, अथवा-अस्तं न गत इति संभवः, इत्येवरूपा, तां समापन्नेण आत्मना 'उदितः सूर्यो नास्तं गतो वा सूर्यः' इति दातृवचनेन अशनादिकं गृहीत्वा भुङ्क्ते भोक्तुं प्रारभते अथ तत्समये सूर्यस्यानुद्गमनास्तमनयोर्निश्चये सति यो भुङ्क्त न परिष्ठापयति तदा स प्रायश्चित्तभागी भवतीति भावः ॥सू० ३५॥ .
अत्र भाष्यकारो गाथात्रयमाहभाष्यम्-उग्गय वित्ती भिक्खू, होइ य जो अणथमियसंकप्पो ।
संथडिओ सो दुविहो, णिध्वितिगिच्छो य वितिगिच्छी ॥१॥