________________
२४४
निशीथसूत्रे
अन्यकथनेन स्वबुद्धया वा निश्चिनुयात् , किं जानीयादित्याह-'अणुग्गए सूरिए' अनुद्गतः सूर्यः सांप्रतं सूर्यो नोदितः 'अत्थमिए वा' अस्तमितः अस्तंगतो वा सूर्यः इति, 'से' अथ तदनन्तरं 'जं च मुहंसि वा' यच्चाशनादि मुखे क्षिप्तं वर्तते 'जं च पाणिसि वा' यच्चाशनादि पाणौ हस्ते वर्तते भोक्तुं हस्ते गृहीतं भवेत् , 'जं च पडिग्गहंसि वा' यच्चाशनादि प्रतिग्रहे पात्रे वर्तते 'ते' तत् सकलमशनादिकं 'विगिचिय' विविच्य तत्रैव विमुच्य 'विसोहिय' विशोध्य मुखं हस्तं पात्रं च निरवयवं लेपरहितं कृत्वा 'तं' तत् यत्पात्रे स्थितं तद् अशनादिकं 'परिहवेमाणे' परिष्ठापयन् भिक्षुः 'नाइक्कमई' नातिकामति तीर्थकराज्ञां नोल्लवयति, आज्ञाया आराधक एव स न तु विराधक इति भावः 'जो तं भुंजइभुजतं वा साइज्ज' यः कोपि साधुर्यदि अन्यकथनेन स्ववुद्धचा वा सूर्यस्यानुद्गमनाऽस्तमने निश्चिते सत्यपि अशनादिचतुर्विधमाहारं भुड्क्ते भोजयति भुञ्जानं वा स्वदते स प्रायश्चित्तभागी भवतीति ।। सू० ३२॥
सूत्रम्-जे भिक्खू उग्गयवित्तिए अणथमियमणसंकप्पे संथडिए वितिगिच्छासमावण्णेणं अप्पाणेणं असणं वा ४ जाव जो तं भुंजइ मुंजंतं वा साइज्जइ ॥ सू० ३३॥
छाया-यो भिक्षुः उद्गतवृत्तिकोऽनस्तमितमनासंकल्पो संस्तृतो विचिकित्सासमापन्नेनात्मना अशन वा ४ यावत् यस्तं भुङ्क्ते भुखानं वा स्वदते ॥ सू० ३३॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा उद्गतवृत्तिकः अनस्तमितमनःसंकल्पः पूर्वव्याख्यातस्वरूपः सः 'संथडिए' संस्तृतः धृतिबलसंहननसंपन्नः 'वितिगिच्छासमावन्नेणं अप्पाणेणं' विचिकित्सा सूर्यस्योद्गमनविषयकः सूर्यो नास्तंगतः इत्येवंविषयकः सदेहः अभ्रछन्नादिवशात् तां विचिकित्सां समापन्नेनात्मना 'उद्गतः सूर्यः, नास्तं गतो वा सूर्यः, इत्येवं दातृकथनेन 'असणं वा ४' अशनादिचतुर्विधमाहारं प्रतिगृह्य भुड़क्ते भुञ्जानं वा स्वदते तदा अथ पुनः आहारारम्भसमये एवं जानीयात्--निश्चिनुयात्-'नोदितः सूर्यः अस्तमितो वा सूर्यः' इति अन्यजनकथनेन स्त्रबुद्धया वा निश्चिते सत्यपि योऽशनादिकं भुक्त भोजयति हस्तपात्रमुखगतमशनादि विविच्य विशोध्य न परिष्ठापयति तदा सोऽवश्यं प्रायश्चित्तभागी भवतीति भावः । अक्षरगमनिका स्पष्टेति ॥सू. ३३॥
' पूर्वसूत्रद्वयं-'संथडिए, निबितिगिच्छासमावन्नेणं अप्पाणेणं' तथा-'संथडिए वितिगिच्छासमावन्नेणं अप्पाणेणं' इति पदद्वयमाश्रित्य प्रोक्तम् । साम्प्रतम् 'असंथडिए' इति पदेन सह 'निन्वितिगिच्छासमावन्नेणं अप्पाणेणं' इति, तथा 'वितिगिच्छासमावन्ने] अप्पाणेणं इति च पदद्वयं संयोज्य सूत्रद्वयं प्रोच्यते-'जे भिक्खू उग्गयवित्तिए' इत्यादि ।