SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०१० स०३२-३३ उद्गतवृत्तिकादेः सूर्यानुद्गमनादिनिश्चये भोजननि० २५३ संकल्पम्-उद्घातिकसंकल्पमनुद्घातिकसंकल्पं चेति द्विकं च, एवं द्वादशसूत्रीकथितं सर्वमेतत् श्रुत्वाऽन्यसकाशात्, स्वयं वा ज्ञात्वाऽपि तेन तादृशेन मुनिना सह मण्डलीमध्ये एकस्यां मण्डल्यां स्थित्वा भुक्ते अशनादिचतुर्विधाहारं करोति, उपलक्षणात् वस्त्रपात्रादीनामादानप्रदानं वा करोति स मिथ्यात्वमाज्ञाभङ्गादिदोषांश्च प्रामोतीति भाष्यगाथाद्वयार्थः ॥१॥ सूत्रम्--जे भिक्खू उग्गयवित्तिए अणथमियमणसंकप्पे संथडिए णिवितिगिच्छासमावण्णेणं अप्पाणेणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता संभुंजइ सं जंतं वा साइज्जइ, अह पुण एवं जाणेज्जा अणुग्गए सूरिए अथमिए वा से जं च मुहंसि वा जं च पाणिसि वा जं च पडिग्गहंसि वा तं च विगिंचिय विसाहिय तं परिद्वावेमाणे णाइकमइ, जो तं भुंजइ मुंजंतं वा साइज्जइ ॥सू० ३२॥ छाया यो भिक्षुरुद्गतवृत्तिकः अनस्तमितमनःसंकल्पः संस्तृतो निर्विचिकित्सासमापन्नेनात्मना अशनं वा पानं वा खाद्य वा स्वाद्य वा प्रतिगृह्य संभुङ्क्ते संभुजानं वा स्वदते, अथ पुनरेवं जानीयात्-अनुद्गतः सूर्यः अस्तमितो वा अथ यच्च मुखे वा यच्च पाणी वा यच्च प्रतिग्रहे वा तं च विविच्य विशोध्य तं परिष्ठापयन् नातिकामति, यस्तं भुयते भुज्जानं वा स्वदते ॥सू० ३२॥ चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' य. कश्चित् भिक्षुः श्रमणः श्रमणी वा 'उग्गयवित्तिए' उद्गतवृत्तिकः उद्गते सूर्ये वृत्तिवर्त्तनं शरीरयात्रार्थ संयमयात्रार्थ च व्यवहारो यस्य स उद्गतवृत्तिकः उद्गते एव सूर्ये आहारविहारादिसकलसाधुक्रियाकारकः 'अणत्थमियमणसंकप्पे' अनस्तमितमनःसंकल्पः-अनस्तमिते अस्तं न गते सूर्ये एव मन:सकल्पः आहारविहारादिविषयको मनोविचारो यस्य स अनस्तमितमनःसंकल्पः सूर्यास्तात्पूर्वमेव सकलसाधुक्रियाकरणशीलमनोविचारवान् 'संथडिए' संस्तृतः धृतिबलसंहनादिना समर्थः अध्वप्रतिपन्नः क्षपकः ग्लानो वा न भवेदिति भावः, एतादृशो भिक्षुः 'णिनितिगिच्छासमावन्नेणं अप्पाणेणं' निर्विचिकित्सासमापन्नेन आत्मना, विचिकित्सा-संदेहः, न विचिकित्सा निर्विचिकित्सा-सूर्योदिता-स्तमनविषयकसन्देहराहित्यं, तां समापन्नेन प्राप्तेन सूर्यस्य अनुद्गतत्वास्तमितत्वसन्देहराहित्येन भात्मना उद्गते सूर्ये अनस्तमिते वा सूर्ये यदि 'असणंवा ४।' अशनादिचतुर्विधमाहारं 'पडिग्गाहित्ता' प्रतिगृह्य यदा 'संभुजई' संभुङ्क्ते 'संभुंजतं वा साइज्जई' संभुजानं वा स्वदते अनुमोदते तदा स भिक्षुः 'अहपुण' अथ पुनः अथ शब्दो विषयान्तरसूचकस्तेन आहारं कर्तुं प्रारब्धस्तत्समये पुनः ‘एवं जाणेज्जा' एवं जानीयात्
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy