________________
निशीथसूत्र
Mamam
छाया-यो भिक्षुर्दिशमपहरति अपहरन्त वा' स्वदते । सू०.१३॥ चूर्णी- 'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दिसं' दिशमाचार्यम् 'अवहरई' अपहरति-पूर्वस्त्रोक्तप्रकारेण नानाविधवाक्यप्रबन्धं कथयित्वाऽन्यगच्छे नयति तथाः 'अवहरंतं वा साइज्जई अपहरन्तम् अन्यगच्छे नयन्तं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकारःभाष्यम्-रागेण दोसेण दिसावहारं, करेइ वा कारइ जो य भिक्खू ।
आणाणवत्थाइ विराहणं च; मिच्छत्तदोसं समुवेड सोऽत्थ ॥ छाया-रागेण द्वेपेण दिशापहारं करोति वा कारयति यश्च भिक्षुः । ___आज्ञानवस्थादि विराधनं च मिथ्यात्वदोषं समुपैति सोऽत्र ॥
अवचूरिः—यः कश्चित् श्रमणः श्रमणी वा रागेण-अन्यगच्छरागेण ढेपेण-स्वगच्छे समुस्पन्नद्वेपेण वा दिशापहार-आचार्यादेरपहारम्-अन्यगच्छे नयनरूपं करोति, अथवा अन्यद्वारा कारयति तदा सोऽत्र विषये आज्ञाभङ्गानवस्थादिदोपान् संयमात्मविरांधनां मिथ्यात्वदोषं च समुपैति प्राप्नोति । शिष्य आचार्य नानाविधवाक्यैः प्रतार्यान्यगच्छे नयति तदा भूतपूर्वगच्छ आचार्यरहितो भवति तेन तद्गच्छे धर्मोपदेशकाभावात् धर्मे लोकानां ग्लानिहनिश्च भवति, गच्छस्य निराधारकरणे तीर्थकरांज्ञाभङ्गो भवेत् , तं दृष्ट्वाऽन्योऽप्येवं करोति, तं दृष्ट्वा चान्यः, एवंम वस्थादोषः समापद्यते । गच्छविराधना चं भवति धर्महान्या संयमविराधनाऽवश्यम्भाविनी, आचार्यापहारे कारणभूतं शिष्य विज्ञाय गच्छवासिनो लोकास्त ताईयेयुरपीत्यात्मविराधनासंभवः, गच्छनिन्दायां मिथ्यात्वदोषमपि स भजते, इत्यांद्यनेके दोषा संभवन्ति ततो दिर्शापहारं न कुर्यात् नापि कारयेत् कुर्वन्तं वा नानुमोदयेदिति भावः ॥१३॥
मूत्रम्-जे भिक्खू बहियावासियं आएसं परं तिरायाओ अविफालेत्ता संवसावेइ संवसावेतं वा साइज्जइ ॥ सू० १४॥
छायायो भिक्षुर्वहिर्वासिकमादेशं परं त्रिरात्रात् अविस्फाल्य संवासयति संवासयन्त वा स्वदते ॥सू०१४॥
- चूर्णीः--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः . कश्चिद् भिक्षुः श्रमणः श्रंमणी वा 'पहियावासियं' वहिर्वासिकं बहिः स्वगच्छाद् बहिर्वस्तुं शीलं यस्य स बहिर्वासी स एव बहिर्वासि कस्तम अन्यगच्छवासिन आएसं' आदेशम् आगतः सन् आदेशमाज्ञां करोति स आदेशः प्राघू. र्णकः साधुस्तमादेश 'अविफालेत्ता' अविस्फाल्य अप्रकट्य , तदागमनकारणमपृष्ट्रेत्यर्थः यथा हे भदन्त ! त्व किंनिमित्तमत्रागतोऽसि त्वमस्माकमजातोऽसि !, कीदृग्गच्छवासी त्वम् कुत आगतः?