________________
घूणिभाष्यावचूरिः उ० १० सू० १३
आचार्यादिरूपदिशापहरणनिवेधः २३५ छाया- अन्यगच्छस्य रागेण गुरुविप्परिणमयेत् ।
पूर्वगच्छस्य दोषान् यः कथयित्वा दोपवान् भवेत् ।। अवचूरि-'अन्नगच्छस्स' ' इत्यादि । यः कश्चित् श्रमणः अन्यगच्छस्य गच्छान्तरस्य रागेण तद्रागभावेन पूर्वगच्छस्य दोषान् कथयित्वा गुरुं स्वस्याचार्यादिकं विपरिणमयति-व्यामोहयति आचार्यस्य चित्तविकृतिं करोति तथाहि-भो गुरो ! नायं गच्छः समीचीनः इत्यादिचूर्णिप्रोक्तप्रकारेण कथयित्वा गुरोस्तद्गच्छसम्बन्धिपरिणाम शिथिलीकरोति स दोषवान् आज्ञाभङ्गादिदोषभागी भवतीति ।
अथवा विपरिणमयतीति आचार्य परिवर्तयति स्वाचार्य दोषान् प्रदान्यमाचार्यं करोतीत्य र्थविषयेऽप्याह भाष्यकारः-- भाष्यम्--रागेण य दोसेण य, दिसं विप्परिणामए ।
तस्स दोसे भणित्ता जो, आणाभंगाइ पावइ ॥ छाया-रागेण च द्वेपेण च दिश विपरिणमयति ।
___ तस्य दोषान् भणित्वा यः आशाभङ्गादि प्राप्नोति ॥
अवचूरिः-यः कश्चित् श्रमणः श्रमणी वा रागेण आचार्यान्तरानुरागेण वा द्वेषेण पूर्वाचार्यगतद्वेपेण वा तस्य पूर्वाचार्यस्य दोषान् भणित्वा कथयित्वा दिशं स्वाचार्य विपरिणमयति परिवर्तययि परावर्तनं करोति मन्याचार्यपाश्चे, गच्झतीति भावः, परावर्त्तनं कारयति वा कुर्वन्तं वा अनुमोदते स आज्ञाभङ्गादिदोषं प्राप्नोति । तत्र विपरिणमनप्रकारस्तु एवम्-कोऽपि शिष्य आचार्यादिकं प्रत्येवं वदति- यस्याचार्यस्य समीपेऽहं प्रव्रजितः स तु अल्पवयस्कः अहं च वृद्धः, तस्मात् एष आचार्यशिष्यसम्बन्धो न सम्यग् घटते कथमहं पुत्रसमानस्यास्याचार्यस्य शिष्यो भूत्वा तिष्ठामि ?, कथं वा अल्पवयस आचार्यस्य विनयवैयावृत्यादिकं करोमि ! किं वा मम स्वजनादिवर्गो जानाति !, अथवा असौ आचार्यः अपरिपक्वबुद्धिस्तेन स अकर्तव्यमपि कार्य कदाचित् करिष्यति । एवं सद्भूतमसद्भूतं वा दोपं वदेत् । अथाऽयमकुलीनो मदीयो गुरुरहं च कुलीनः, मेघावी चाहं स तु: दुर्मेधाः । महं धनाढ्यः सन् प्रव्रजितः, स तु अकिंचनो दरिद्रः प्रव्रजितः, अहं बुद्धिमान् स तु अवुद्धिः, अबुद्धेः कुतो लब्धिरिति नासौ लब्धिमान् , अथवा पूर्वोक्तप्रकारेणैव स्वकीयमाचार्य निन्दति, यस्य पावें गन्तुमिच्छति तं च प्रशंसते, यथा-अयं न पूर्वोक्तगुणवान् स तु पूर्वोक्तप्रभूतगुणवान् वर्तते, इत्यादिप्रकारेण यः कश्चित् श्रमणः स्वकीयाचार्यस्य दोषान् सद्भूतानसद्भूतान् वा प्रकाशयित्वा अन्यस्याचार्यस्य च गुणान् प्रदर्य भूतपूर्वमाचार्य त्यक्वाऽन्यमाचार्य परिसेवते सप्रायश्चित्तभागी भवति । तस्याज्ञाभङ्गादिका दोषा भवन्तीति ॥सू० १२॥
सूत्रम्-जे भिक्खू दिसं अवहरइ अवहरंतं वा साइज्जइ ॥ सू०१३॥