________________
२३४
निशीथसूचे करोति, अयं भावः-कोपि साधुः श्रमणान्तरशिप्यस्य वस्त्रपात्रादिलोभेन प्रकागन्तरेण वाऽपहारं करोति कारयति वा तथा 'अबहरतं वा साइज्जड' अपहरन्तं श्रमणान्तरस्य यः शिष्यः तरयापहारं कुर्वन्तं श्रमणान्तरम् मनुमोदते स प्रायश्चित्तभागी भवति । कथं पुनः अक्षकस्यापहारो भवतीति चेदुच्यते-कश्चित् श्रमणः नवदीक्षितशिष्यं गृहीत्वा प्रस्थितः कुत्रापि प्रामे भिक्षाकाले संप्राप्ते तं शिष्य वसतौ स्थापयित्वा भिक्षार्थ स्वयं गतवान् तदा तत्रान्यः कोऽपि श्रमणः संज्ञादिभूमि गतस्तं दृष्ट्वा तदपहरणबुद्ध्या तत्समीपं गच्छति । ततः साधुवेपं तं दृष्ट्वा स शिष्यः तस्य वन्दनं करोति ततः स श्रमणः पृच्छति-कस्त्वम् ! कस्मात्स्थानादागतोऽसि ! कुत्र वा गन्तुमिच्छमि !, एवं साधुना पृष्टो शिष्यो वदति-अमुकेन साधुना प्रवाजितोऽस्मि मे गुरुर्भिक्षार्थ प्रामे गतः, तेनात्रस्थातुमाज्ञप्तः स्थितोऽस्मि, तदा स साधुर्वदति-किमर्थमत्र स्थितोऽसि मया साईमागच्छ अशनवनपात्रादिना त्वां तोपयिष्यामि, इत्यादि नाना विधप्रलोभनवाक्यस्तं प्रत्तार्यापहरति स्वसमीपे नयति । तदा स प्रायश्चित्तभागी भवति ॥ सू० ११॥
सूत्रम्-जे भिक्खू दिसं विप्परिणामेइ विपरिणामेंतं साइज्जइ सू०॥ छाया-यो भिक्षु दिशं विपरिणमयति विपरिणमयन्तं पा स्वदते ॥सू० १२॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दिसं विप्परिणामेइ' दिशम् दिशति उपदिशति धर्ममिति दिशः, स श्रमणानां द्विविधः आचार्य उपाध्यायश्च, श्रमणीनां च स त्रिविधः-आचार्य उपाध्यायः प्रवर्तनीचेति, तं तथाविधं दिशं द्विविधं त्रिविधं वा श्रमणः श्रमणी वा 'विप्परिणामेइ' विपरिणमयति आचार्यादेवुद्रिव्यामोहं करोति, तथाहि-कश्चित् श्रमणः स्वस्याचार्य कथयति-भो गुरो ! नायं गच्छः समीचीनः यतोऽत्राल्पाः श्रावकाः, तेऽपि दरिद्राः कृपणाश्च, नात्राहारवस्त्रपात्रादिः सुलभः, अमुको गच्छः समीचीनः, यत्र बहवः श्रावकाः, ते पुनर्धनसमृद्धा उदाराश्च तेन तत्राहारवस्त्रापात्रादिः सुलभः, इत्यादि कथयित्वाssचार्यस्य तद्गच्छसम्बन्धिपरिणामं शिथिलीकरोतीति । अथवा दिशमाचार्य विपरिणामयतीति तस्मिन् दोपविशेष समारोप्य परावर्तयति आचार्यपरिवर्तनं करोति, पूर्वाचार्य मुक्त्वाऽन्याचार्यपाचे गच्छति । कथमित्याह-नायं मादृशस्याघीतश्रुनस्यानधीतश्रुतोऽयमादित्वेन योग्यः, अथवाअयमपरिणतवयस्कः, अहं तु परिणतवयस्कः, इत्याधाक्षेपमवलम्ाचायादिकं मुक्वाऽन्यमाचार्यादिक सेवते । तथा 'दिसं विपरिणामंतं वा साइज्जई' दिशं विपरिणमयन्तं परावर्तयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकार:-- भाष्यम्--अन्नगच्छस्स रागेण, गुरुं विप्परिणामए ।
पुन्चगच्छस्स दोसे जो, कहित्ता दोसवं भवे ॥