________________
॥ दशमोदेशकः ॥ व्याख्यातो नवमोद्देशकः, अथ दशमोद्देशकः प्रारभ्यते, अस्य दशमोदेशकस्य नवमोदेशकेन सह कः सम्बन्ध इति चेदत्राह भाष्यकार:--'रायपिंड' इत्यादि । भाष्यम्-रायपिंडं च मा भुंजे, तहा दासीनिमिचगं ।
गिद्धो वयइ आगाढं, दसमे तन्निसेहणं ॥१॥ छाया-राजपिण्डं च मा भुक्ष तथा दासीनिमित्तकं ।
गृद्धो वदति आगाद, दशमे तन्निषेधनम् ॥१॥ अवचूरिः- पूर्व नवमोद्देशकान्तिमसूत्रे राजपिण्ड दासीनिमित्तकं पिण्डं च न भुजीत इति भगवता निषिद्धं तत आचार्यः शिष्यं कथयति-हे आर्य ! 'रायपिंड' राजपिण्ड तथा दासीनिमित्तकं पिण्डं मा भुड्ड्व, एवमुक्तः शिष्यः 'गिद्धो' गृद्धः राजपिण्डे दासीनां रूपे च मूर्छितः सन् तन्निवारणे कृते आचार्यम् आगाढं-परुषं वदतीति दशमेऽस्मिन् उद्देशके तन्निषेधनं तस्य तादृशस्यागाढवचनस्य निषेधनं निवारणं कृतम् । यस्मात् राजादौनामशनादिकं विशिष्टं भवति तत्र, तथा राजादीनां दास्यः प्रायः सौन्दर्यशालिन्यो भवन्ति आहारप्रसङ्गादासीभिः सह परिचयसंमवात्तद्रूपे च मूछितो मोहोदयात्संयमाद् भ्रष्टो भवितुमर्हति तस्मात्कारणाद् रानपिण्डादेनिपेधे शिष्यः परुपं ददेदिति तन्निषेधनमत्र प्रतिपादयिष्यते । एष एव नवमोदेशकेन सह दशमोशकस्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य ‘दशमोद्देशकस्येदमादिसूत्रम्-'जे भिक्खू भदंत' इत्यादि।
सूत्रम्-जे भिक्खू भदंतं आगाढं वयइ वयंतं वा साइज्जइ ॥सू०१॥
छाया-यो भिक्षुर्भदन्तमागाढं वदति वदन्तं वा स्वदते ॥सू०१॥
चूर्णी-'जे भिक्खू इत्यादि । जे भिक्खू यः कश्चिद् भिक्षुः 'भदंतं' भदन्तं 'भदि कल्याणे सुखे च' इति धातोः रूपम् । तेन भदन्तं कल्याणकारकम् माचार्यमुपाध्यायं पर्यायज्येष्ठं च प्रति 'आगाढं' आगाढम्, तत्र गाढं कठोरम् अत्यर्थं गाढमागाढं सरोषवचनम् 'वयई' वदति कथयति। यो भिक्षुः राजपिण्डादिपु गृद्धः आचार्यादिना निवारित आचार्यादिकं अतिशयाधिक कठोरवचनं वदति तथा 'वयंतं वा साइज्जई' वदन्तं वा स्वदते । यो भिक्षुराचार्येण राजपिण्डादिषु निवारित आचार्यादिकं माशातनारूपं कठोरवचनं वदति तादृशं श्रमणान्तरं यो अनुमोदते च स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकार:भाष्यम्-आगाई दुविहं बुत्तं, सूयया य असूयया ।
तेसिं दोण्ह सख्वं च, गेयं सत्यानुसारओ ॥