________________
२२४
निशीथसूत्रे
छाया-'आगाढं द्विविधं प्रोक्तं सूचया च असूचया ।
तयोद्वयोः स्वरूपं च क्षेयं शास्त्रानुसारतः ॥ अवचूरिः-अत्र तु सूचयति परस्य दोषान् कथयतीति सूचा परदोषाविष्करणम्, असूचान सूचा परदोपाविष्करणरूपेति-असूचा । यत्र परस्य दोषाः सूच्यन्ते नात्मन-इति सूचा । यत्र परस्य दोपा न सूच्यन्ते स्वात्मनः सूच्यन्ते सा-असूचेति भावः, अत्रेदं प्रथममागाढसूत्रम् १, द्वितीयं परुपसूत्रम् २, तृतीयमागाढपरुपमुभयरूपम् ३, तत्र येनोक्तेन स्वपरशरीरे ऊष्मा समुत्पद्यते तदागाढम् १. यत् स्नेहरहितमुपेक्षावचनं तत् परुषम् २, यत्र द्वयोरागाढपरुषयोः संयोगो भवेत्तद् आगाढपरुपं कथ्यते ३, । एतत् त्रिविधमपि वचनमेकैकं सूचाऽसूचाभ्यां द्विविधं भवति । तन्त्र प्रथममागाहवचनं वित्रियते-'आगाढं दुविई' इत्यादि । तत् मागाढम्-आगाढवचनं द्विविध प्रोक्तम्-सूचया असूचया चेति । एषा सूचा असूचा च सप्तदशप्रकारके वस्तुनि भवति-जातौ १, कुले २, रूपे ३, भाषायाम् ४, धने ५, बले ६, पर्याये ७, यशसि ८, तपसि ९, लाभे-१०, सत्त्वे ११, वयसि १२, बुद्धौ १३, धारणायां १४, उपग्रहे १५, शीले १६, सामाचार्या च १७/ तत्र जातो सूचा परस्य स्फुटमेव दोपं भापते नात्मनो दोषं वदति यथा जातिविशिष्टेऽपि न त्वं जातिविशिष्टोऽसि महं पुनर्जातिमान् , इत्यादिकथनरूपा जातिविषया सूचा १, असूचा तु यथा भोः ! अहं जातिहीनोऽस्मि भवान् जातिमान् तथा च जातिमता सह जातिहीनस्य मे को विरोधः ! एपा जातिविपया असूचा, अहं भोः ! कुलवान् भवान् कुलहोन इति कुलविषया सूचा । एवम् अहं भोः ! कुलहीनः, कुलपुत्रैः सह को विरोधोऽस्माकमिति कुलविषया असूचा २, तथा अहं भोः । रूपवान् भवान् रूपहीनः कुरूपोऽस्तीति रूपविषया सूचा । एवम् अहं भोः ! रूपहीन' सुरूपदेहवता सह को विरोधः ? ३॥ एवं प्रकारेण भाषादिपु सर्वेपु स्थानेष्वपि सूचा असूचा च भणितन्या, तत्र सूचा परंगता, असूचा आत्मगता भवति । तत्र भाषा-वाणी ४, धनम्-हिरण्यसुवर्णरजतादिकम् ५, बलम मौरसः पराक्रमः ६, पर्यायः प्रव्रज्याकालः ७, यशः लोकख्यातिः ८, तपः संयमश्चतुर्थभकादिर्वा ९, लाभ:-आहारोपकरणादिलब्धिः १०, सत्त्वम्-आत्मबलम् ११, वयःभवस्था १२, बुद्धिः-औत्पत्तिक्यादिः १३, धारणा-दृढस्मृतिः १४, उपग्रहः-बहुबहुविवक्षिप्रा-- निश्रितासंदिग्धध्रुवाणामुपकारकरणम् १५, शीलम्-अक्रोधादिप्रकृतिः १६, सामाचारी-चक्रवालरूपा साधुसामाचारी १७, एतानि सर्वाणि स्थानानि समवलम्व्य सूचया वाऽथ असूचयाऽऽचार्यादिकं प्रति एकमप्यागाढवचनं न वदेत्, नाप्यन्यं वक्तुं प्रेरयेत् वदन्तं वा नानुमोदयेत् । यः कोऽप्येवं करोति स प्रायश्चित्तभागी भवति, तस्याज्ञाभङ्गाऽनवस्थादयोऽनेके दोषा भवन्तीति |सू१०॥
सूत्रम्-जे भिक्खू भदंतं फरुसं वयइ वयंतं वा साइज्जइ ॥सू० २॥ छाया-यो भिक्षुर्मदन्तं परुपं वदति वदन्तं वा स्वदते ॥सू० २॥