SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ घूर्णिभाष्यावचूरिः उ०९ सू० १३-१९ यात्रासंप्रस्थितनिवृत्तराजादीनामाहारग्रहणनि० २१३ छाया-राजा च यत्र तिष्ठति, तत्रस्थेषु गृहादिस्थानेषु । भिक्षुर्दोपान प्राप्नोति, विहारादेः करणात् ॥ अवचूरिः- 'राया य जन्थ चिडइ' यत्र प्रदेशविशेषे राजक्षत्रियः क्षत्रियवंशीयो राजा तिष्ठति 'तत्थत्थेसुं' तत्रस्थेषु तदासन्नस्थितेषु गृहादिस्थानेषु 'विहारमाइस्स करणाओं' विहारादेः, विहारस्य आदिशब्दात् स्वाध्यायस्य आहारस्य उच्चारादिपरिष्ठापनस्य अन्यतरदनार्यनिष्ठुराऽश्रमणप्रायोग्यकथायाश्च करणात् 'भिक्खू भिक्षुः श्रमणः श्रमणी वा 'दोसे' दोषान् आज्ञाभङ्गानवस्थादिकान् 'पावई' प्रामोति । यः कोऽपि साधुः राजादिनिवासासन्नगृहादिप्रदेशे विचरेत् स्वाध्यायं कुर्यात् माहारं कुर्यात् उच्चारप्रस्रवणं परिष्ठापयेत् शिविगल्तिां काञ्चित् कथां वा कुर्यात् , एवं कारयेत् वा, तथा कुर्वन्तमनुमोदयेत् वा स माज्ञाभङ्गमनवस्था मिथ्यात्वं संयमविराधनमात्मविराधनं च प्राप्नुयात् , एवं भद्रकाभद्रककृता अनेके दोषा अपि भवेयुरिति । यस्मात् एते पूर्वोक्ता दोषा भवन्ति तस्मात्कारणात् श्रमणः श्रमणी वा राजादिनिवासासन्नस्थितगृहादौ तत्समीपे वा विहारमारम्य शिष्टजनानाचरणीयकथापर्यन्तं स्वयं न कुर्यात् न वा कारयेत् न वा कुर्वन्तं कमपि अनुमोदयेदिति ॥सू० १२॥ सूत्रम्-जे भिक्खू रण्णो खत्तियाणं मुदियाणं सुद्धाभिसित्ताणं बहिया जत्तासंपट्ठियाणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥सू०१३॥ छाया--यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानां वहिर्यात्रासंस्थितानाम् अशनं वा पानं वा खाद्यं वा स्वाय वा प्रतिगृहानि प्रतिगृह्यन्तं वा स्वदते ॥सू० १३॥ चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'रणो' राज्ञः 'खत्तियाणं' क्षत्रियाणाम् 'मुदियाण' मुदितानाम् 'मुदाभिसित्ताणं' मूभिषिक्तानाम् पूर्वोक्तस्वरूपाणां 'बहिया जत्तासंपट्ठियाणं' बहिर्यात्रासंप्रस्थितानां परराजविजयार्थ प्रस्थितानाम् , यदा राजा परराजविनयार्थ गच्छति तदा मङ्गलार्थ भोजनं कृत्वा गच्छति तादृशभोजनादित्यर्थः 'असणं वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खाद्यं वा 'साइमं वा' स्वाधं वा 'पडिग्गाहेइ' प्रतिगृह्णाति तथा 'पडिग्गाहेंतं वा साइज्जई' प्रतिगृह्णन्तं वा स्वदते । यो हि विजयार्थ प्रस्थितस्य राजादेमार्गे माङ्गल्यार्थ निर्मितभोजनादिसामग्रीतोऽशनादिकं स्वीकरोति स्वीकारयति वा, तथा तादृशमश-' नादिकं स्वीकुर्वन्तमनुमोदयति स प्रायश्चित्तभागी भवति ॥सू०१३॥ सूत्रम्--जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं बहिया जत्तापडिणियत्ताणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहइ पडिग्गाहतं वा साइज्जइ सू० १४॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy