SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २१२ निशीथसूत्रे तस्यामनुत्थितायां तत्सकागात् 'नो गिण्हे' नो नैव गृह्णीयात्, रवीकुर्यात , न वा स्वीकुर्वन्तमन्यमनुमोदयेत्, तद्ग्रहणे आज्ञाभङ्गादि-राजपिण्डहणजन्याद्यनेकदोपमंभवादिति ।। सू० ११॥ सूत्रम्-अह पुण एवं जाणेज्जा-'इहज्ज रायखत्तिए परिखुसिए' जे. भिक्खूताए गिहाए ताए पएसाए ताए उवासंतराए विहारं वा करेइ सज्झायं वा करेइ असणं वा पाणं वा, खाइमं वा साइमं वा आहारेइ, उच्चारं वा पासवणं वा परिहवेइ, अण्णयरं वा अणारियं निटुरं अस्समणपाओग्गं कहं कहेइ कहेंतं वा साइज्जइ सू०१२॥ . छाया-अथ पुनरेवं जानीयात् "इहाऽद्य राजक्षत्रियः पर्युपित " यो भिक्षुः तस्मिन् गृहे तस्मिन् प्रदेशे तस्मिन् अवकाशान्तरे विहारं वा करोति स्वाध्यायं वा करोति अशनं वा पानं वा खाद्य वा स्वायं वा आहरति, उच्चारं वा प्रस्रवणं वा परिठापयति, अन्यतरां वा अनार्याम् निष्ठुराम् अश्रमणप्रायोग्यां कथां कथयति कथयन्तं वा स्वदते सू० १२॥ चूर्णी-'अह पुण' इत्यादि । 'अह' अथ अयेत्यय निपातः आनन्तर्यार्थकः, उतो हि राजपिण्डः, अथ तदनन्तरम् राजपिण्डकथनानन्तरम् 'पुण' पुनः ‘एवं जाणेज्जा' एव जानीयात् एवं यथावस्यमाणं जानीयात्, किं जानीयात् । तत्राह-'इहे'-त्यादि, 'इहज्ज रायखत्तिए परिसिए' इहाद्य राजक्षत्रियः क्षत्रियवंशीयो राजा पर्युपितः, तत्र इहास्मिन भूमिप्रदेशे अद्य वर्तमानदिवसे राना कुलपरम्परया प्राप्तराज्यश्रीकः क्षत्रियः उपलक्षणात्-मुदितः मूभिषिको वा पर्युषितो निवसन् अस्तीति, अथैवं ज्ञात्वाऽपि 'जे भिक्खू' यः कश्चिद् भिक्षुः 'ताए गिहाए' तस्मिन् गृहे यत्र राजा निवासं करोति तदासन्नगृहस्थगृहे 'ताए पएसाए' तस्मिन् प्रदेशे राजादिनिवासासन्नप्रदेशे यत्र खड्गादिशस्त्राणि स्थापितानि भवेयुस्तत्र 'ताए उवासंतराए' तस्मिन् अवकाशान्तरे तत्पार्श्वस्थशुद्धभूमौ च 'विहारं वा करेइ' विहार-विहरण वा करोति 'सज्झायंवा करेइ' स्वाध्यायं वा करोति 'असणं वा' अशनं वा इत्यादि, अशनादिचतुर्विधमाहारं 'आहारेई' आहरति-आहारं करोति 'उच्चारं वा पासवणं वा परिहवेइ' उच्चारं वा प्रस्रवणं वा परिष्ठापयति 'अण्णयरं वा' अन्यतरां वा 'अणारिय' अनार्याम् सत्पुरुपानाचरणीयाम् 'णिट्ठरं' निष्ठुराम्-अश्लीलां 'अस्समणपाओग्ग' अश्रमणप्रायोग्याम् असाधुपुरुषयोग्यां 'कहं' कथाम् 'कहेइ' कथयति 'कहेंतं वा साइज्जइ' कथयन्तं वा स्वदते अनुमोदते । अत्राह भाष्यकारः-- • भाष्यम्-राया य जत्थ चिट्ठइ, तत्वत्थेसुं गिहाइठाणेमु । . भिक्खू दोसे पावइ, विहारमाइस्स करणाओ ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy